Bhagavad Gita Chapter 16
CHAPTER 16
अथ षोडशः अध्यायः । दैव आसुर सम्पत् विभाग योगः ।
Now chapter sixteen. YOGA OF DIVISION OF DEVINE AND DEMONIC TREASURES
Krishna and Arjuna |
VERSE 16. 1
श्रीभगवान् उवाच ।
अभयम् सत्त्व संशुद्धिः ज्ञान योग व्यवस्थितिः ।
दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ॥ १६ १॥
Aphorism
The Blessed Lord said. Fearlessness, purity of mind, steadfastness in the Yoga of Knowledge, steadfastness, charity, self-control, sacrifice, the study of Scriptures, austerity, and correct behavior; ( these are the wealth of the man born into the Deva nature.)
Note:
Yoga of Knowledge = Jnana Yoga, also Jnana kanda = Upanishads. This consists of making what has been learned, direct experience through meditation and self-control.
Meaning
श्रीभगवान् उवाच — the Blessed Lord said; अभयम् — fearlessness; सत्त्व संशुद्धिः — purity of being; ज्ञान — wisdom; योग — yoga; व्यवस्थितिः — the steadfastness; दानम् — charity; दमः — self restraint; च — and; यज्ञः — sacrifice; च — and; स्वाध्यायः — study (of scriptures); तपः — austerity; आर्जवम् — correct behavior.
With sandhi:
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६ १॥
Anvaya:
अभयम्, सत्त्व संशुद्धिः, ज्ञान योग व्यवस्थितिः, दानम्, दमः च यज्ञः च, स्वाध्यायः, तपः, आर्जवम्,
VERSE 16. 2
अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् ।
दया भूतेषु अलोलुप्त्वम् मार्दवम् ह्रीः अचापलम् ॥ १६ २॥
Aphorism
nonviolence, truthfulness, freedom from anger, renunciation, peace, aversion to fault-finding, mercy to beings, freedom from greed, gentleness, modesty, and determination,
Notes:
त्यागः renunciation = renunciation of the results of actions.
Freedom from greed = Desiring more than what one needs also being unaffected even when senses are enjoying sense objects,
Meaning
अहिंसा — nonviolence; सत्यम् — truthfulness; अक्रोधः — freedom from anger; त्यागः — renunciation; शान्तिः — peace; अपैशुनम् — aversion to fault-finding; दया — mercy; भूतेषु — among beings; अलोलुप्त्वम् — freedom from greed; मार्दवम् — gentleness; ह्रीः — modesty; अचापलम् — determination;
With sandhi:
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६ २॥
Anvaya:
अहिंसा, सत्यम्, अक्रोधः, त्यागः, शान्तिः, अपैशुनम्, भूतेषु दया, अलोलुप्त्वम्, मार्दवम्, ह्रीः, अचापलम्,
VERSE 16. 3
तेजः क्षमा धृतिः शौचम् अद्रोहः न अति मानिता ।
भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत ॥ १६ ३॥
Aphorism
Vigor,
forgiveness, fortitude, purity; absence of envy and pride—these
are
the wealth of one born into Deva nature O!
Bharata!
Notes:
Splendor = means energy and not the brightness of the skin.
Meaning
तेजः — splendour; क्षमा — forgiveness; धृतिः — fortitude; शौचम् — purity; अद्रोहः — absence of malice; न — not; अति मानिता — over-pride; भवन्ति — are; सम्पदम् — endowment; दैवीम् — (to) divine; अभिजातस्य — of the born; भारत — O! Bharata!
With sandhi:
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६ ३॥
Anvaya:
हे भारत! तेजः, क्षमा, धृतिः, शौचम्, अद्रोहः, न अति मानिता दैवीम् सम्पदम् अभिजातस्य भवन्ति ।
VERSE 16.4
दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च ।
अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ १६ ४॥
Aphorism
Pride,
arrogance, conceit, anger, harshness, and ignorance, these qualities
of
those born with demoniac nature, O! Partha.
Notes:
Harshness = In speech.
Ignorance = misconception of one's own duties.
Meaning
दम्भः — pride; दर्पः — arrogance; अभिमानः — conceit; च — and; क्रोधः — anger; पारुष्यम् — harshness; एव — even; च — and; अज्ञानम् — ignorance; च — and; अभिजातस्य — of the born; पार्थ — O! Partha; सम्पदम् — endowment; आसुरीम् — the demoniac nature.
With sandhi:
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६ ४॥
Anvaya:
हे पार्थ! दम्भः, दर्पः, अभिमानः च, क्रोधः, पारुष्यम्, एव च अज्ञानम् च आसुरीम् सम्पदम् अभिजातस्य ।
VERSE 16.5
दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता ।
मा शुचः सम्पदम् दैवीम् अभिजातः असि पाण्डव ॥ १६ ५॥
Aphorism
The divine qualities are conducive to liberation, demoniacal for bondage. Do not grieve, O! Pandava, for you are born with divine qualities.
Notes:
Demoniacal = A question arises in Arjuna's mind whether he possesses demonic or divine characteristics. The Lord assures him that he has divine nature. Only when the nature (demonic) is known, its avoidance is possible.
Meaning
दैवी — divine; सम्पत् — wealth; विमोक्षाय — liberation; निबन्धाय — for bondage; आसुरी — demoniacal; मता — is thought; मा — do not; शुचः — grieve; सम्पदम् — wealth; दैवीम् — to divine; अभिजातः — born; असि — you are; पाण्डव — O! Pandava.
With sandhi:
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६ ५॥
Anvaya:
दैवी सम्पत् विमोक्षाय, आसुरी निबन्धाय मता । हे पाण्डव! दैवीम् सम्पदम् अभिजातः असि, मा शुचः ।
VERSE 16.6
द्वौ भूत सर्गौ लोके अस्मिन् दैवः आसुरः एव च ।
दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे शृणु ॥ १६ ६॥
Ahorism
O! Partha!, there are two types of beings created in this world; The divine and the demoniac. The divine has been described at length. Now hear from Me concerning the demoniac.
Meaning
द्वौ — two; भूत सर्गौ — created beings; लोके — in the world; अस्मिन् — this; दैवः — divie; आसुरः — demoniac; एव — even; च — and; दैवः — the divine; विस्तरशः — in detail; प्रोक्तः — said; आसुरम् — the demoniacal; पार्थ — O! Partha!; मे — from Me; शृणु — hear.
With sandhi:
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ १६ ६॥
Anvaya:
हे पार्थ! अस्मिन् लोके दैवः आसुरः च एव द्वौ भूत सर्गौ दैवः विस्तरशः प्रोक्तः आसुरम् मे शृणु ।
VERSE 16.7
प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः ।
न शौचम् न अपि च आचारः न सत्यम् तेषु विद्यते ॥ १६ ७॥
Aphorism
Those
who are demoniac do not know what to do and what not to
do.
Neither cleanliness nor good conduct nor truth is found in them.
Note:
What
to do = What acts are helpful to attain the goal of liberation.
Meaning
प्रवृत्तिम् — proper actions; च — and; निवृत्तिम् — improper actions; च — and; जनाः — persons; न — not; विदुः — know; आसुराः — of demoniac quality; न — never; शौचम् — cleanliness; न — nor; अपि — also; च — and; आचारः — behavior; न — never; सत्यम् — truth; तेषु — in them; विद्यते — there is.
With sandhi:
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६ ७॥
Anvaya:
आसुराः जनाः प्रवृत्तिम् च निवृत्तिम् च न विदुः, तेषु च न शौचम्, न आचारः, न अपि सत्यम् विद्यते ।
VERSE 16.8
असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् ।
अपरस्पर सम्भूतं किम् अन्यत् काम हैतुकम् ॥ १६ ८॥
Aphorism
They say that this world is unreal, with no moral basis and no God in control. They say it is for sexual gratification only and not for any other reason.
Meaning
असत्यम् — untruth; अप्रतिष्ठम् — without foundation; ते — they; जगत् — the world; आहुः — say; अनीश्वरम् — without god; अपरस्पर — without cause; सम्भूतं — arisen; किम् — what; अन्यत् — other; काम हैतुकम् — for sex gratification only.
With sandhi:
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६ ८॥
Anvaya:
जगत् असत्यम्, अप्रतिष्ठम्, अनीश्वरम्, अपरस्पर सम्भूतं काम हैतुकम् अन्यत् किम् ते आहुः ।
VERSE 16.9
एताम् दृष्टिम् अवष्टभ्य नष्ट आत्मानः अल्प बुद्धयः ।
प्रभवन्ति उग्र कर्माणः क्षयाय जगतः अहिताः ॥ १६ ९॥
Aphorism
Holding this view, these ruined selves of small intelligence, engaging in fierce activities, come forward as enemies for the world's destruction.
Notes:
Engaging in fierce activities = activities that cause pain to others.
Meaning
एताम् — this; दृष्टिम् — view; अवष्टभ्य — having held fast; नष्ट — lost; आत्मानः — selves; अल्प बुद्धयः — the less intelligent; प्रभवन्ति — flourish; उग्र कर्माणः — fierce activities; क्षयाय — for destruction; जगतः — of the world; अहिताः — enemies.
With sandhi:
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६ ९॥
Anvaya:
एताम् दृष्टिम् अवष्टभ्य नष्ट आत्मानः, अल्प बुद्धयः, उग्र कर्माणः, अहिताः जगतः क्षयाय प्रभवन्ति ।
VERSE 16.10
कामम् आश्रित्य दुष्पूरम् दम्भ मान मद अन्विताः ।
मोहात् गृहीत्वा असत् ग्राहान् प्रवर्तन्ते अशुचि व्रताः ॥ १६ १०॥
Aphorism
Giving themselves up to insatiable desires, full of hypocrisy, pride, arrogance, holding false views due to delusion, and acting with impure resolve.
Meaning
कामम् — desire; आश्रित्य — taking refuge; दुष्पूरम् — insatiable; दम्भ — hypocrisy; मान — pride; मद अन्विताः — false views; मोहात् — delusion; गृहीत्वा — taking hold of; असत् — impermanent; ग्राहान् — things; प्रवर्तन्ते — they flourish; अशुचि — impure; व्रताः — resolve.
With sandhi:
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वा सद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६ १०॥
Anvaya:
दुष्पूरम् कामम् आश्रित्य, मोहात् असत् ग्राहान् गृहीत्वा, अशुचि व्रताः दम्भ मान मद अन्विताः प्रवर्तन्ते ।
VERSE 16. 11
चिन्ताम् अपरिमेयाम् च प्रलयान्ताम् उपाश्रिताः ।
काम उपभोग परमाः एतावत् इति निश्चिताः ॥ १६ ११॥
Aphorism
Giving themselves over to innumerable thoughts, which will only lead to death, holding on to the view that gratification of desire is the highest goal, and feeling certain that this is all.
Meaning
चिन्ताम् — anxieties; अपरिमेयाम् — immeasurable; च — and; प्रलयान्ताम् — until death; उपाश्रिताः — taking refuge; काम उपभोग — gratification of desires; परमाः — suptreme (goal of life); एतावत् — thus much; इति — thus; निश्चिताः — assured.
With sandhi:
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६ ११॥
Anvaya:
(ते) अपरिमेयाम् प्रलयान्ताम् चिन्ताम् उपाश्रिताः काम उपभोग परमाः च , एतावत् इति निश्चिताः ।
VERSE 16. 12
आशा पाश शतैः बद्धाः काम क्रोध परायणाः ।
ईहन्ते काम भोगार्थम् अन्यायेन अर्थ सञ्चयान् ॥ १६ १२॥
Aphorism
Bound by hundreds of ties of hope, given up wholly to lust and wrath, they strive, by unjust means, to amass wealth for the satisfaction of their desires.
Meaning
आशा पाश — ties hope; शतैः — by hundreds; बद्धाः — bound; काम — desire; क्रोध — anger; परायणाः — object of attention; ईहन्ते — they strive; काम — desire; भोग — of enjoyment; अर्थम् — for the sake of; अन्यायेन — unlawful; अर्थ — of wealth; सञ्चयान् — accumulation.
With sandhi:
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६ १२॥
Anvaya:
आशा पाश शतैः बद्धाः, काम क्रोध परायणाः, काम भोगार्थम् अन्यायेन अर्थ सञ्चयान् ईहन्ते ।
VERSE 16. 13
इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् ।
इदम् अस्ति इदम् अपि मे भविष्यति पुनः धनम् ॥ १६ १३॥
Aphorism
“ This I have gained today, I will fulfill that desire. This wealth is mine, and that also shall be mine in the future;"
Meaning
इदम् — this; अद्य — today; मया — by me; लब्धम् — obtained; इमम् — this; प्राप्स्ये — I shall obtain; मनोरथम् — desire; इदम् — this; अस्ति — is; इदम् — this; अपि — also; मे — of me; भविष्यति — shall be; पुनः — again; धनम् — wealth.
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६ १३॥
Anvaya:
अद्य इदम् मया लब्धम्, इमम् मनोरथम् प्राप्स्ये, इदम् धनम् अस्ति, इदम् अपि मे पुनः भविष्यति ।
VERSE16. 14
असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि ।
ईश्वरः अहम् अहं भोगी सिद्धः अहम् बलवान् सुखी ॥ १६ १४॥
Aphorism
“ I have slain that enemy, I will slay others too. I am the lord of all; I enjoy, I am prosperous, mighty, and happy."
Meaning
असौ — this; मया — by me; हतः — slain; शत्रुः — enemy; हनिष्ये — I shall slay; च — and; अपरान् — others; अपि — also; ईश्वरः — the lord; अहम् — I am; अहं — I am; भोगी — the enjoyer; सिद्धः — perfect; अहम् — I; बलवान् — strong; सुखी — happy.
With sandhi:
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६ १४॥
Anvaya:
असौ शत्रुः मया हतः, अपरान् च अपि हनिष्ये, अहम् ईश्वरः, अहं भोगी, अहम् सिद्धः, बलवान् सुखी (च अहं अस्मि) ।
VERSE 16. 15
आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया ।
यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान विमोहिताः ॥ १६ १५॥
Aphorism
“ I am wealthy; well-born; Who else is equal to me? I will sacrifice, I will give charity, I will rejoice.” Thus deluded by ignorance,
Meaning
आढ्यः — wealthy; अभिजनवान् — well-born; अस्मि — I am; कः — who; अन्यः — other; अस्ति — there is; सदृशः — like; मया — me; यक्ष्ये — I will sacrifice; दास्यामि — I will give; मोदिष्ये — I will rejoice; इति — thus; अज्ञान — by ignorance; विमोहिताः — deluded.
With sandhi:
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६ १५॥
Anvaya:
आढ्यः अभिजनवान् अस्मि, मया सदृशः कः अन्यः अस्ति? यक्ष्ये, दास्यामि, मोदिष्ये इति अज्ञान विमोहिताः ।
VERSE 16.16
अनेक चित्त विभ्रान्ताः मोह जाल समावृताः ।
प्रसक्ताः काम भोगेषु पतन्ति नरके अशुचौ ॥ १६ १६॥
Aphorism
Thus bewildered by numerous thoughts, caught in a web of delusion, addicted to gratification of desire, they fall down into foul hell.
Meaning
अनेक — various; चित्त —thoughts; विभ्रान्ताः — bewildered; मोह — of delusion; जाल — by the net; समावृताः — covered; प्रसक्ताः — attached; काम भोगेषु — desire gratification; पतन्ति — fall; नरके — into hell; अशुचौ — unclean.
With sandhi:
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ १६॥
Anvaya:
अनेक चित्त विभ्रान्ताः मोह जाल समावृताः काम भोगेषु प्रसक्ताः, अशुचौ नरके पतन्ति ।
VERSE 16.17
आत्म सम्भाविताः स्तब्धाः धन मान मद अन्विताः ।
यजन्ते नाम यज्ञैः ते दम्भेन अविधि पूर्वकम् ॥ १६ १७॥
Aphorism
Self-honored, haughty, filled with pride, and the intoxication of wealth, they sometimes proudly perform sacrifices in name only, without following any rules or regulations.
Meaning
आत्म सम्भाविताः — self-glorified; स्तब्धाः — stubborn; धन — wealth; मान — pride; मद — intoxication; अन्विताः — full of; यजन्ते — they worship; नाम — in name only; यज्ञैः — sacrifices; ते — they; दम्भेन — by hypocrisy; अविधि पूर्वकम् — contrary to spiritual ordinances.
With sandhi:
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६ १७॥
Anvaya:
आत्म सम्भाविताः स्तब्धाः धन मान मद अन्विताः, ते दम्भेन अविधि पूर्वकम् नाम यज्ञैः यजन्ते ।
VERSE 16.18
अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः ।
माम् आत्म पर देहेषु प्रद्विषन्तः अभ्यसूयकाः ॥ १६ १८॥
Aphorism
Possessed of egotism, power, pride, lust, and anger, these people, envious by nature, hate Me, in the bodies of others and their own.
Notes:
Egotism = Self-pride due to ignorance.
Meaning
अहङ्कारम् — egoism; बलम् — pride; दर्पम् — insolence; कामम् — desire; क्रोधम् — anger; च — and; संश्रिताः — refuged in; माम् — Me; आत्म — of self; पर — of others; देहेषु — bodies; प्रद्विषन्तः — hating; अभ्यसूयकाः — carping ones.
With sandhi:
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६ १८॥
Anvaya:
अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः आत्म पर देहेषु माम् प्रद्विषन्तः अभ्यसूयकाः ।
VERSE 16.19
तान् अहम् द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु ॥ १६ १९॥
Aphorism
These cruel haters, these evil-doers, these vilest of men, I hurl them into the wombs of demons for the cycle of births and deaths.
Note:
Wombs
of demons = Such people are born in demonic families and as ferocious
animals.
Meaning
तान् — these; अहम् — I; द्विषतः — hating; क्रूरान् — cruel; संसारेषु — in the material world; नराधमान् — the lowest among men; क्षिपामि — I throw; अजस्रम् — forever; अशुभान् — impure; आसुरीषु — demoniac; एव — certainly; योनिषु — into the wombs.
With sandhi:
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६ १९॥
Anvaya:
तान् द्विषतः क्रूरान्, अशुभान्, नराधमान् संसारेषु आसुरीषु एव योनिषु अजस्रम् अहम् क्षिपामि ।
VERSE 16.20
आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि ।
माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमाम् गतिम् ॥ १६ २०॥
Aphorism
Having
fallen into the wombs of demons and being deluded from birth to birth
not
attaining me, O! Kaunteya, they sink into the lowest depths.
Meaning
आसुरीम् — demoniac; योनिम् — womd; आपन्नाः — fallen into; मूढाः — the deluded; जन्मनि जन्मनि — in birth after birth; माम् — Me; अप्राप्य — not having obtained; एव — even; कौन्तेय — O! Kaunteya; ततः — thereafter; यान्ति — go; अधमाम् — lowest; गतिम् — path.
With sandhi:
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६ २०॥
Anvaya:
हे कौन्तेय! आसुरीम् योनिम् आपन्नाः जन्मनि जन्मनि मूढाः माम् अप्राप्य एव, ततः अधमाम् गतिम् यान्ति ।
VERSE 16.21
त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः ।
कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् ॥ १६ २१॥
Aphorism
There are three gateways leading to this hell, lust, anger, and greed. Therefore let man renounce these three.
Meaning
त्रिविधम् — tripple; नरकस्य — of hell; इदम् — this; द्वारम् — gate; नाशनम् — destructive; आत्मनः — of the self; कामः — desire; क्रोधः — anger; तथा — also; लोभः — greed; तस्मात् — therefore; एतत् — this; त्रयम् — three; त्यजेत् — let him abandon.
With sandhi:
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६ २१॥
Anvaya:
कामः क्रोधः तथा लोभः इदम् त्रिविधम् आत्मनः नाशनम् नरकस्य द्वारम्, तस्मात् एतत् त्रयम् त्यजेत् ।
VERSE 16.22
एतैः विमुक्तः कौन्तेय तमो द्वारैः त्रिभिः नरः ।
आचरति आत्मनः श्रेयः ततः याति पराम् गतिम् ॥ १६ २२॥
Aphorism
The
man who has escaped these three gates of hell, O son of Kunti, does
what
is good for himself and attains the supreme goal.
Note:
Three gates = Mentioned in the previous verse.
Meaning
एतैः — by these; विमुक्तः — liberated; कौन्तेय — O! Kaunteya; तमो — darknrss; द्वारैः — by the gates; त्रिभिः — by three; नरः — a man; आचरति — conducts; आत्मनः — own; श्रेयः — betterment; ततः — thereafter; याति — he goes; पराम् — highest; गतिम् — path.
With sandhi:
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६ २२॥
Anvaya:
हे कौन्तेय! एतैः त्रिभिः तमो द्वारैः विमुक्तः नरः, आत्मनः श्रेयः आचरत्, ततः पराम् गतिम् याति ।
VERSE 16.23
यः शास्त्र विधिम् उत्सृज्य वर्तते काम कारतः ।
न सः सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् ॥ १६ २३॥
Aphorism
He who has discarded the scriptural injunctions and acts according to his own desire attains neither perfection, happiness, nor the highest goal.
Notes:
Happiness = in this world (birth).
The highest goal = is Liberation or Moksha.
Meaning
यः — who; शास्त्र — scriptures; विधिम् — the rules of the; उत्सृज्य — giving up; वर्तते — goes; काम कारतः — from the impulse of desire; न — not; सः — he; सिद्धिम् — perfection; अवाप्नोति — obtains; न — not; सुखम् — happiness; न — never; पराम् — the highest; गतिम् — path.
With sandhi:
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६ २३॥
Anvaya:
यः शास्त्र विधिम् उत्सृज्य, काम कारतः वर्तते, सः न सिद्धिम्, न सुखम्, न पराम् गतिम् अवाप्नोति ।
VERSE 16.24
तस्मात् शास्त्रम् प्रमाणम् ते कार्य अकार्य व्यवस्थितौ ।
ज्ञात्वा शास्त्र विधान उक्तम् कर्म कर्तुम् इह अर्हसि ॥ १६ २४॥
Aphorism
Therefore
let the scriptures be your authority, in determining what ought to be
done, and what ought not to be done. is the duty and what is not duty by the
regulations
of the scriptures. Knowing the injunctions of the scriptures, you
should do your work in this world.
Meaning
तस्मात् — therefore; शास्त्रम् — the scriptures; प्रमाणम् — authority; ते — your; कार्य — duty; अकार्य — non-duty; व्यवस्थितौ — determining; ज्ञात्वा — having known; शास्त्र — scripture; विधान — the rule; उक्तम् — as spoken; कर्म — action; कर्तुम् — to do; इह — here; अर्हसि — you should.
With sandhi:
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६ २४॥
Anvaya:
तस्मात् कार्य अकार्य व्यवस्थितौ ते शास्त्रम् प्रमाणम् (अस्ति), शास्त्र विधान उक्तम् कर्म ज्ञात्वा (तत् त्वं) इह कर्तुम् अर्हसि ।
End
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म विद्यायाम् योग शास्त्रे श्रीकृष्ण अर्जुन संवादे
दैव आसुर सम्पत् विभाग योगः नाम षोडशः अध्यायः ॥
Thus in the Blessed Gita, the Essence of the Upanishads, the Science of Brahman, and the Scripture of Yoga, the dialogue between Sri Krishna and Arjuna, ends the sixteenth chapter, entitled YOGA OF DIVISION OF DEVINE AND DEMONIC TREASURES.
Please report corrections to shivoham101b@gmail.com
Comments
Post a Comment
All comments are welcome but any comment to promote any URL is not permitted.