Bhagavad Gita Chapter 02


                                                         Bhagavad Gita Chapter 02





THE WAY OF ULTIMATE REALITY


VERSE 2.1

सञ्जय उवाच

तम् तथा कृपया आविष्टम् अश्रु पूर्ण आकुल ईक्षणम् ।

विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदनः ॥ २-१॥

Aphorism

Sanjaya said: To Arjuna who was thus overcome with pity and who was despondent, with smarting brimming eyes, Madhusudana (the destroyer of Madhu), spoke these words.

Meaning

सञ्जय उवाच – Sanjaya said

तम् – to him (Arjuna); तथा – thus; कृपया – with pity; आविष्टम् – overwhelmed; अश्रु पूर्ण - full of tears; आकुल – restless; ईक्षणम् – eyes; विषीदन्तम् – despondent; इदम् – these; वाक्यम् – words; उवाच – said; मधुसूदनः - the killer of Madhu.

With sandhi:

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २ १॥

Anvaya:

तथा कृपया आविष्टम् अश्रु पूर्ण आकुल ईक्षणम्

विषीदन्तम् तम् मधुसूदनः इदम् वाक्यम् उवाच ।


VERSE 2.2

श्रीभगवान् उवाच ।

कुतः त्वा कश्मलम् इदम् विषमे समुपस्थितम् ।

अनार्य जुष्टम् अस्वर्ग्यम् अकीर्ति करम् अर्जुन ॥ २-२॥

Aphorism

The Bhagawan said.

From where did this ignoble dejection, which will close the doors of heaven to you, and will lead to infamy, come to you at this perilous moment? Oh! Arjuna!

Meaning

श्रीभगवान् उवाच – the Bhagawan said;

कुतः – from where; त्वा – to you; कश्मलम् – dejection; इदम् – this; विषमे - in this difficulty; समुपस्थितम् – happened; अनार्य – not noble; जुष्टम् - practised by; अस्वर्ग्यम् - which does not lead to heavens; अकीर्ति करम् – causing infamy; अर्जुन - O Arjuna.

With sandhi:

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ २॥

Anvaya:

हे अर्जुन! अनार्य जुष्टम् अस्वर्ग्यम् अकीर्तिकरम्

इदम् कश्मलम् विषमे त्वा कुतः समुपस्थितम् ?


VERSE 2.3

क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते ।

क्षुद्रम् हृदय दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परन्तप ॥ २-३॥

Aphorism

Yield not to impotence, O Arjuna, son of Pritha! It does not befit you. Cast off the mean weakness of the heart. Stand up, O scorcher of foes!

Meaning

क्लैब्यम् - weakness; मा स्म - do not; गमः - take to; पार्थ – Partha (son of Pritha); न – not; एतत् – this; त्वयि – to you; उपपद्यते - is fitting; क्षुद्रम् -mean; हृदय - of the heart; दौर्बल्यम् - weakness; त्यक्त्वा – having abandoned; उत्तिष्ठ – stand up; परन्तप – O scorcher of the enemies!

With sandhi:

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २ ३॥

Anvaya:

हे पार्थ! क्लैब्यम् मा स्म गमः । एतत् त्वयि न उपपद्यते ।

हे परन्तप! क्षुद्रम् हृदय दौर्बल्यम् त्यक्त्वा उत्तिष्ठ ।


VERSE 2.4

अर्जुनः उवाच ।

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ २ ४॥

॥ २-४॥

Aphorism

Arjuna said: O Madhusudana, how shall I battle Bhishma and Drona with arrows, who are worthy of worship, O slayer of foes?

Note: 

Bhishma and Drona are Arjuna’s grandfathers and teachers of archery.

Meaning

अर्जुनः उवाच — Arjuna said;

कथम् — how; भीष्मम् — Bhishma; अहम् — I; सङ्ख्ये — in battle; द्रोणम् — Drona; च — and; मधुसूदन — O killer of Madhu; इषुभिः — with arrows; प्रतियोत्स्यामि — fight against; पूजा अर्हौ — who are fit to be worshipped; अरिसूदन — O killer of the enemies.

With sandhi:

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ २ ४॥

Anvaya:

हे मधुसूदन! अहम् भीष्मम् द्रोणम् च सङ्ख्ये इषुभिः कथम्

प्रतियोत्स्यामि? अरि सूदन! (एतौ) पूजा अर्हौ ।


VERSE 2.5

गुरून् अहत्वा हि महानुभावान्

श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके ।

हत्वा -कामान् तु गुरून् इह एव

भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥ २-५॥

Aphorism

Better it is, indeed, in this world to accept alms than to slay the noblest (Gurus) teachers. But if I kill them, even in this world all my enjoyments of wealth and desires will be stained with (their) blood.

Meaning

गुरून् — the Gurus; अहत्वा — not having slain; हि — indeed; महानुभावान् — great souls; श्रेयः — it is better; भोक्तुम् — to eat; भैक्ष्यम् — alms; अपि — even; इह — here; लोके — in this world; हत्वा — having slain; अर्थ — wealth; कामान् — desire; तु - but; गुरून् — Gurus; इह — here; एव — also; भुञ्जीय — I should eat; भोगान् — foods; रुधिर — with blood; प्रदिग्धान् — stained.

With sandhi:

गुरूनहत्वा हि महानुभावान्

श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।

हत्वार्थकामांस्तु गुरूनिहैव

भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २ ५॥

Anvaya:

हि महानुभावान् गुरून् अहत्वा, इह लोके भैक्ष्यम् भोक्तुम् अपि श्रेयः । गुरून् हत्वा तु इह एव रुधिर प्रदिग्धान् अर्थ कामान् भोगान् भुञ्जीय ।


VERSE 2.6

न च एतत् विद्मः कतरत् नः गरीयः

यत् वा जयेम यदि वा नः जयेयुः ।

यान् एव हत्वा न जिजीविषामः

ते अवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥

Aphorism

I do not know which is better: that we should conquer them or they should conquer us. After slaying the sons of Dhrtaraashtra arrayed against us, we would not care to live.

Note: 

If we conquer them we would enjoy wealth tainted with blood. This would not give us happiness. If they win and conquer us we would live with alms. But our defeat will be a triumph of spirituality.

Meaning

न — nor; च — and; एतत् — this; विद्मः — (we) know; कतरत् — which; नः — for us; गरीयः — more important; यत् – that;वा — or; जयेम — we may conquer; यदि — if; वा — or; नः — us; जयेयुः — they conquer; यान् — whom; एव — even; हत्वा — having killed ; न — not; जिजीविषामः — we would want to live; ते — those; अवस्थिताः — standing; प्रमुखे — facing; धार्तराष्ट्राः — the sons of Dhrtarashtra.

With sandhi:

न चैतद्विद्मः कतरन्नो गरीयो

यद्वा जयेम यदि वा नो जयेयुः ।

यानेव हत्वा न जिजीविषाम

स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २ ६॥

Anvaya:

नः कतरत् गरीयः? यत् वा (वयं) जयेम, यदि वा (ते)

नः जयेयुः, एतत् च न विद्मः । यान् हत्वा न जिजीविषामः,

ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः ।


VERSE 2.7

कार्पण्य दोष उपहत स्वभावः

पृच्छामि त्वाम् धर्म सम्मूढ चेताः ।

यत् श्रेयः स्यात् निश्चितम् ब्रूहि तत् मे

शिष्यः ते अहम् शाधि माम् त्वाम् प्रपन्नम् ॥ २-७॥

Aphorism

My heart is weighed down by the taint of pity, and my mind is confused as to duty. I ask You: tell me decisively what is good for me. I am Your disciple. Instruct me. I surrender to You.

Note:

Until the seeker acknowledges himself to be a disciple, the teacher may not impart the highest Knowledge.

Meaning

कार्पण्य — of commiseration; दोष — by the fault; उपहत — being attacked; स्वभावः — nature; पृच्छामि — (I) ask; त्वाम् — You; धर्म — duty; सम्मूढ — confused; चेताः — in mind; यत् — what; श्रेयः — better; स्यात् — may be; निश्चितम् — decisively; ब्रूहि — tell; तत् — that; मे — to me शिष्यः — disciple; ते — Your; अहम् — I am; शाधि — teach; माम् — me; त्वाम् — to You; प्रपन्नम् — surrendered.

With sandhi:

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २ ७॥

Anvaya:

कार्पण्य दोष उपहत स्वभावः धर्म सम्मूढ चेताः (अहं)

त्वाम् पृच्छामि । यत् निश्चितम् श्रेयः स्यात्, तत् मे ब्रूहि ।

अहम् ते शिष्यः । त्वाम् प्रपन्नम् माम् शाधि ।


VERSE 2.8

न हि प्रपश्यामि मम अपनुद्यात्

यत् शोकम् उच्छोषणम् इन्द्रियाणाम् ।

अवाप्य भूमौ असपत्नम् ऋद्धम्

राज्यम् सुराणाम् अपि च आधिपत्यम् ॥ २-८॥

Aphorism

I do not see that it would remove this sorrow that burns up my senses even if I should attain prosperous and unrivaled lordship over the gods.

Meaning

न — do not; हि — certainly; प्रपश्यामि – (I) see; मम — my; अपनुद्यात् — may drive away; यत् — that; शोकम् — grief; उच्छोषणम् — drier up; इन्द्रियाणाम् — of my senses; अवाप्य — having obtained; भूमौ — in the earth; असपत्नम् — without rival; ऋद्धम् — prosperous; राज्यम् — kingdom; सुराणाम् — of the devas; अपि — even; च — and; आधिपत्यम् — lordship.

With sandhi:

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २ ७॥

Anvaya:

हि भूमौ असपत्नम् ऋद्धम् राज्यम् अवाप्य , सुराणाम् च अपि

आधिपत्यम्, यत् मम इन्द्रियाणाम् उच्छोषणम् शोकम्

अपनुद्यात् न प्रपश्यामि ।


VERSE 2.9

सञ्जयः उवाच ।

एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तपः ।

न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह ॥ २-९॥

Aphorism

Sanjaya said: Having spoken thus to Hrishikesa (Lord of the senses), Arjuna (the conqueror of curbing ignorance), the destroyer of foes, said to Krishna: “I will not fight,” and became silent.

Meaning

सञ्जयः उवाच — Sanjaya said;

एवम् — thus; उक्त्वा — having spoken; हृषीकेशम् — to Krishna, the master of the senses; गुडाकेशः — Arjuna, the master of curbing ignorance; परन्तपः — the chastiser of the enemies; न योत्स्ये — I shall not fight; इति — thus; गोविन्दम् — unto Krishna (Govinda), the giver of pleasure to the senses; उक्त्वा — having said; तूष्णीम् — silent; बभूव — became; ह — (particle).

With sandhi:

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ २ ९॥

Anvaya:

परन्तपः गुडाकेशः हृषीकेशम् एवम् उक्त्वा 'न योत्स्ये'

इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह ।


VERSE 2.10

तम् उवाच हृषीकेशः प्रहसन् इव भारत ।

सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः ॥ २-१०॥

Aphorism

To him who was despondent in the midst of the two armies, Sri Krishna, as if smiling, spoke these words! “O Bharata,“:

Note:

Krishna’s instructions on the philosophy of Gita begin from the next verse. Arjuna’s grief is caused by delusion in the form of attachment to kinsmen and friends and ego. He came to the battlefield on his own accord to perform his duty as a ruler. Now because of delusion, he wants to abstain from his duty and lead a mendicant’s life. Delusion based on ego and attachment leads to an incessant cycle of birth and death in the relative world. Only the knowledge of Reality can destroy this delusion. The Lord begins to impart the knowledge of Reality in the next verse. His discourse starts with the immorality of the Soul.

Adhi Shankara’s commentary on Bhagavad Gita begins from this verse. This is an important chapter because the whole of Vedanta is summarised here.

Meaning

तम् — to him; उवाच — said; हृषीकेशः — the master of the senses, Krishna; प्रहसन् — smiling; इव — as it were; भारत — O Bharatha, descendant of Bharata; सेनयोः — of the (two) armies; उभयोः — of both ; मध्ये — in the middle; विषीदन्तम् — to the despondent one; इदम् — this; वचः — words.

With sandhi:

तमुवाच हृषीकेशः प्रहसन्निव भारत ।

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २ १०॥

Anvaya:

हे भारत! उभयोः सेनयोः मध्ये विषीदन्तम् (अर्जुनं) तम्

हृषीकेशः प्रहसन् इव इदम् वचः उवाच ।


VERSE 2.11

श्रीभगवान् उवाच।

अशोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादा च भाषसे ।

गत असून् अगत असून् च न अनुशोचन्ति पण्डिताः ॥ २-११॥

Aphorism

The Lord said: You have grieved for those that should not be grieved for, yet you speak words of wisdom. The wise grieve neither for the living nor for the dead.

Note:

words of wisdom: A reference to Chapter 1, 35-45. The cause of Arjuna’s grief is due to the lack of discrimination between the body and the soul.

Meaning

श्रीभगवान् उवाच — the Blessed Lord said;

अशोच्यान् — not worthy of lamentation; अन्वशोचः — you are lamenting; त्वम् — you; प्रज्ञा वादा — words of wisdom; च — and; भाषसे — speaking; गत — gone; असून् — life; अगत— not gone; असून् — life; च — and; न — not; अनुशोचन्ति — grieve; पण्डिताः — the wise.

With sandhi:

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २ ११॥

Anvaya:

त्वम् अशोच्यान् अन्वशोचः । प्रज्ञा वादान् च भाषसे ।

पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति ।


VERSE 2.12

न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः ।

न च एव न भविष्यामः सर्वे वयम् अतः परम् ॥ २-१२॥

Aphorism

There was not a time when I did not exist, nor you, nor all these rulers; nor in the future shall any of us cease to be.

Note:

Here the Lord means the soul and not the bodies. The Atman never perishes.

Meaning

न — not; तु — but; एव — certainly; अहम् — I; जातु — at any time; न — not; आसम् — was; न — not; त्वम् — you; न — not; इमे — all these; जनाधिपाः — rulers; न — not; च — and; एव — also; न — not; भविष्यामः — (we) shall be; सर्वे वयम् — all of us; अतः – from this time; परम् — after.

With sandhi:

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २ १२॥

Anvaya:

अहम् जातु न आसम् (इति) न तु एव, त्वम् (जातु न आसीः इति), इमे जनाधिपाः (जातु न आसन् इति) , । अतः परम् च वयम् सर्वे न भविष्यामः (इति) न एव ।


VERSE 2.13

देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा ।

तथा देहान्तर-प्राप्तिः धीरः तत्र न मुह्यति ॥ २-१३॥

Aphorism

Just as in this body of the embodied (soul) passes into childhood, youth, and old age, so also does he pass into another body; the steadfast man does not grieve thereat.

Meaning

देहिनः — of the embodied; अस्मिन् — in this; यथा — as; देहे — in the body; कौमारम् — childhood; यौवनम् — youth; जरा — old age; तथा — so; देहान्तर— of another body; प्राप्तिः — obtaining; धीरः — the firm; तत्र — there; न — not; मुह्यति — is deluded.

With sandhi:

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २ १३॥

Anvaya:

देहिनः अस्मिन् देहे यथा कौमारम् यौवनम् जरा, तथा

देहान्तर प्राप्तिः । तत्र धीरः न मुह्यति ।


VERSE 2.14

मात्रा-स्पर्शाः तु कौन्तेय शीत-उष्ण-सुख-दुःख-दाः ।

आगम अपायिनः अनित्याः । भारत तान् तितिक्षस्व ॥ २-१४॥

Aphorism

The contacts of the senses with the objects, O son of Kunti, which cause heat and cold and pleasure and pain, have a beginning and an end; they are impermanent; endure them bravely, O Bharata!

Note:

The two epithets the Lord uses for Arjuna here, are to remind him of his noble lineage on both his mother’s and father’s sides.

Just try to endure: Endurance is one of the requisites of a seeker. Shankara in his Vivekachudamani Verse 24 defines endurance as follows:

Meaning

मात्रास्पर्शाः — the matter and sensory perception; तु — indeed; कौन्तेय — O son of Kunti; शीत — cold; उष्ण — heat; सुख — happiness; दुःख — and pain; दाः — giving; आगम — coming; अपायिनः — (and) going; अनित्याः — transitory; तान् — these; तितिक्षस्व — just try to endure; भारत — O descendant of the Bharata dynasty.

सहनं सर्व दुःखानाम् अप्रतीकार पूर्वकम्।

चिन्ता विलापर हितं सा तितिक्षा निगद्यते ॥ २४॥

Titiksha or forbearance is said to be one's ability to accept all sorrow and sufferings without seeking revenge or remedy while being free from anxiety or lament over them. 24

With sandhi:

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २ १४॥

Anvaya:

हे कौन्तेय! मात्रा स्पर्शाः तु शीत उष्ण सुख दुःख दाः,

आगम अपायिनः, अनित्याः । हे भारत! तान् तितिक्षस्व ।


VERSE 2.15

यम् हि न व्यथयन्ति एते पुरुषम् पुरुष-ऋषभ ।

सम-दुःख-सुखम् धीरम् सः अमृतत्वाय कल्पते ॥ २-१५॥

Aphorism

That firm man whom surely these torment not, O chief among men, to whom pleasure and pain are the same, steadfast, is fit for attaining immortality (liberation)!

Note:

Firm man: One who is endowed with the knowledge of the immortality of the soul. Steadfast: He neither exults in pleasure nor feels dejected in pain.

Meaning

यम् — whom; हि — indeed; न — not; व्यथयन्ति — torment; एते — all these; पुरुषम् — man; पुरुष ऋषभ — O best among men; सम — equal; दुःख — pain; सुखम् — and pleasure; धीरम् — firm; सः — he; अमृतत्वाय — for immortality; कल्पते — becomes fit.

With sandhi:

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ २ १५॥

Anvaya:

हे पुरुष ऋषभ! हि यम् सम दुःख सुखम् धीरम् पुरुषम्

एते न व्यथयन्ति, सः अमृतत्वाय कल्पते ।


VERSE 2.16

न असतः विद्यते भावः न अभावः विद्यते सतः ।

उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व दर्शिभिः ॥ २-१६॥

Aphorism

There is no existence for the unreal. The real does not cease to exist; the truth about both has been seen by the seers of reality.

Note:

The definition of Real here is that does not change forever. Unreal keeps changing always. Brahman and Atman are real. Since the universe keeps changing it is treated as unreal. Any object that is conditioned by the law of cause and effect is not absolutely real, because every effect is a change brought about by a cause and every cause is temporary. Atman is an unchanging witness to the changes in the relative world.

Meaning

न — not; असतः — of the nonexistent; विद्यते — there is; भावः — existence; न — not; अभावः — non-existence; विद्यते — there is; सतः — of the existent; उभयोः — of the two; अपि — also; दृष्टः — has been seen; अन्तः — in the end (the final truth); तु — indeed; अनयोः — of these; तत्त्व — of the truth; दर्शिभिः — by the seers.

With sandhi:

नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २ १६॥

Anvaya:

असतः भावः न विद्यते सतः अभावः न विद्यते । तत्त्व दर्शिभिः तु

उभयोः अपि अनयोः अन्तः दृष्टः ।


VERSE 2.17

अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम् ।

विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति ॥ २-१७॥

Aphorism

Know That to be indestructible, by whom all this is pervaded. None can cause the destruction of that imperishable One.

Note:

That: Brahman or unchangeable Consciousness. It is the Self of all.

All this: The world of names and forms.

Pervaded: Brahman is the Witness and innermost essence of the changing world.

Cause the destruction: Brahman is indivisible and therefore has no parts that can be destroyed.

The immutable Consciousness in the individual Self is the same as Brahman, the universal Consciousness.

Meaning

अविनाशि — indestructible; तु — indeed; तत् — That; विद्धि — know it; येन — by whom; सर्वम् — all ; इदम् — this; ततम् — pervaded; विनाशम् — the destruction; अव्ययस्य — of the imperishable; अस्य — of this; न कश्चित् — no one; कर्तुम् — to do; अर्हति — is able.

With sandhi:

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २ १७॥

Anvaya:

विद्धि, येन इदम् सर्वम् ततम्, तत् तु अविनाशि । अस्य

अव्ययस्य विनाशम् कर्तुम्, कश्चित् न अर्हति ।


VERSE 2.18

अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः ।

अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत ॥ २-१८॥

Aphorism

These bodies of the embodied Self, which is eternal, indestructible, and immeasurable, are finite. Therefore, fight, O Bharata (Arjuna)!

Note:

Immeasurable: Incomprehensible by senses, the mind, or any other instrument of knowledge. It is the knowing Consciousness it cannot be known by others. But everything else is known by the self. The direct experience of the Self is the cognition of “I am I”. Scriptures do not reveal the true nature of the Self.

Embodied Self: The Self that takes a body is called Jiva and the higher Self that never takes a body is Brahman.

The Lord is not commanding Arjuna to fight. He is only trying to remove the ignorance that is stopping him from fighting, by making him understand the true nature of the Soul.

Meaning

अन्त वन्तः — having an end; इमे — these; देहाः — bodies; नित्यस्य — of the everlasting; उक्ताः — (are) said; शरीरिणः — of the embodied; अनाशिनः — of the indestructible; अप्रमेयस्य — of the immeasurable; तस्मात् — therefore; युध्यस्व — fight; भारत — O descendant of Bharata.

With sandhi:

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २ १७॥

Anvaya:

अनाशिनः अप्रमेयस्य नित्यस्य शरीरिणः इमे देहाः अन्तवन्तः

उक्ताः । हे भारत! तस्मात् युध्यस्व ।


VERSE 2.19

यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम्

उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते ॥ २-१९॥

Aphorism

He who thinks the Self to be the slayer and he who thinks he is slain, are both ignorant; He slays not nor is he slain.

Meaning

यः — he who; एनम् — this; वेत्ति — knows; हन्तारम् — the slayer; यः — he who; च — and; एनम् — this; मन्यते — thinks; हतम् — slain; उभौ — both; तौ — those; न — not; विजानीतः — (two) know; न — not; अयम् — this; हन्ति — kills; न — nor; हन्यते — is killed.

With sandhi:

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २ १९॥

Anvaya:

यः एनम् हन्तारम् वेत्ति, यः च एनम् हतम् मन्यते तौ उभौ

न विजानीतः, अयम् न हन्ति न हन्यते ।


VERSE 2.20

न जायते म्रियते वा कदाचित्

न अयम् भूत्वा भविता वा न भूयः ।

अजः नित्यः शाश्वतः अयम् पुराणः

न हन्यते हन्यमाने शरीरे ॥ २-२०॥

Aphorism

He (the Atman) is not born nor does He ever die; after having been, He does not cease to be. Unborn, eternal, changeless, and ancient, He is not killed when the body is killed.

Note:

For Verses 19 and 20 compare Katha Upanishad I,ii,18-19.

न जायते म्रियते वा विपश्चिन्

नायं कुतश्चिन्न बभूव कश्चित् ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ॥ १८॥

This Self is never born, nor does It die. It did not spring from anything, nor did anything spring from It. This Ancient One is unborn, eternal, everlasting. It is not slain even though the body is slain. (18)

हन्ता चेन्मन्यते हन्तु।ण् हतश्चेन्मन्यते हतम् ।

उभौ तौ न विजानीतो नाय।ण् हन्ति न हन्यते ॥ १९॥

If the slayer thinks that he slays, or if the slain thinks that he is slain, both of these know not. For It neither slays nor is It slew. (19)

It will be noted that Verse 20 is almost identical to Verse 18 of Katha.

Meaning

न — not; जायते — is born; म्रियते — dies; वा — or; कदाचित् — at any time (past, present or future); न — not; अयम् — this; भूत्वा — having come into being; भविता — will come to be; वा — or; न — not; भूयः — or is again; coming to be; अजः — unborn; नित्यः — eternal; शाश्वतः — permanent; अयम् — this; पुराणः — the oldest; न — not; हन्यते — is killed; हन्यमाने — being killed; शरीरे — the body.

With sandhi:

न जायते म्रियते वा कदाचिन्

नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ॥ २ २०॥

Anvaya:

अयम् कदाचित् न जायते, न वा म्रियते, (अयम्) भूत्वा भूयः

अभविता वा न। अयम् अजः नित्यः शाश्वतः पुराणः, शरीरे

हन्यमाने न हन्यते ।


VERSE 2.21

वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम् ।

कथम् सः पुरुषः पार्थ कम् घातयति हन्ति कम् ॥ २-२१॥

Aphorism

Whosoever knows Him (Atman) to be indestructible, perpetual, unborn, and undiminishing, how can that man slay, O Partha (Arjuna), or cause to be slain?

Note:

All actions are attributed to the body and not to the soul. An enlightened man possessing the knowledge of Atman renounces all actions associated with the idea of a doer.

Meaning

वेद — knows; अविनाशिनम् — indestructible; नित्यम् — perpetual; यः — who; एनम् — this (Atman); अजम् — unborn; अव्ययम् — undiminishing; कथम् — how; सः — (he) that; पुरुषः — man; पार्थ — O Partha (Arjuna); कम् — whom; घातयति — causes to be slain; हन्ति — kills; कम् — whom.

With Sandhi:

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २ २१॥

Anvaya:

हे पार्थ! यः एनम् अविनाशिनम् नित्यम् अजम् अव्ययम् वेद,

सः पुरुषः कथम् कम् घातयति, कम् हन्ति ?


VERSE 2.22

वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरः अपराणि ।

तथा शरीराणि विहाय जीर्णानि

अन्यानि संयाति नवानि देही ॥ २ २२॥

Aphorism

Just as a man discards worn-out garments and puts on new ones, so also the embodied Self casts off worn-out bodies and enters others that are new.

Note:

Enter others that are new: This refers to a new birth that the Self (soul) takes. The Soul takes innumerable births to discover Its transcendental nature. Through this process, It gains experience, and from experience, It gains Knowledge that will lead it to be free from worldly bondage and become enlightened. Self remains unchanged during the whole process of repeated births and deaths.

Meaning

वासांसि — garments; जीर्णानि — worn-out; यथा — as; विहाय— having cast away; नवानि — new; गृह्णाति — takes; नरः — a man; अपराणि — to others; तथा — so; शरीराणि — bodies; विहाय — having cast away; जीर्णानि— worn-out; अन्यानि — to others; संयाति — goes; नवानि — new; देही — the embodied;

With sandhi:

वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरोऽपराणि ।

तथा शरीराणि विहाय जीर्णा

न्यन्यानि संयाति नवानि देही ॥ २ २२॥

Anvaya:

यथा नरः जीर्णानि वासांसि विहाय, अपराणि नवानि गृह्णाति,

तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति ।


VERSE 2.23

न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः ।

न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः ॥ २-२३॥

Aphorism

Weapons do not cut It, fire does not burn It, waters do not wet It, and the wind does not dry It.

Note:

It (above)  refers to the Self (Atman or soul). The Atman is without parts. Therefore It cannot be cut into parts or destroyed any other way. Because Atman is not a material object. Only material objects can be destroyed.

Meaning

न — not; एनम् — this; छिन्दन्ति — cut to pieces; शस्त्राणि — weapons; न — not; एनम् — this (Atman); दहति — burns; पावकः — fire; न — not; च — and; एनम् — this (Atman); क्लेदयन्ति — wet; आपः — water; न — not; शोषयति — dries; मारुतः — wind;.

With sandhi:

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २ २३॥

Anvaya:

एनम् शस्त्राणि न छिन्दन्ति, एनम् पावकः न दहति

एनम् आपः न क्लेदयन्ति, (एनम्) च मारुतः न शोषयति ।


VERSE 2.24

अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च ।

नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः ॥ २-२४॥

Aphorism

This Self (Atman) cannot be cut, burnt, made wet, or dried up. It is eternal, all-pervading, stable, ancient, and immovable.

Note:

Any other natural agents of destruction such as water, fire, and wind cannot destroy the Atman. The Lord repeats his explanation of the nature of the Atman so that we can understand the mystery of the Atman.

Meaning

अच्छेद्यः — cannot be cut; अयम् — this (Atman); अदाह्यः — cannot be burned; अयम् — this (Atman); अक्लेद्यः — cannot be made wet; अशोष्यः — cannot be dried; एव — also; च — and; नित्यः — perpetual; सर्वगतः — all-pervading; स्थाणुः — stable; अचलः — immovable; अयम् — this Atman; सनातनः — ancient;

With sandhi:

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २ २४॥

Anvaya:

अयम् अच्छेद्यः, अयम् अदाह्यः, अयम् अक्लेद्यः, (अयम्)

अशोष्यः च एव । अयम् नित्यः, सर्वगतः, स्थाणुः, अचलः, सनातनः ।


VERSE 2.25

अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते ।

तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि ॥ २-२५॥

Aphorism

The soul is invisible (unmanifest), inconceivable, and immutable. Knowing this (Atman), you should not grieve.

Note:

The Self can be known only by a pure mind that is free from greed, lust, and ego. In fact, the pure mind is the same as the Self. The Self is immutable because it is infinite. Being indivisible, it cannot change. Therefore Arjuna should not think of the Self as a slayer or slain and on that account grieve.

Meaning

अव्यक्तः — unmanifest; अयम् — this (Atman); अचिन्त्यः — inconceivable; अयम् — this (Atman); अविकार्यः — immutable; अयम् — this (Atman); उच्यते — is said; तस्मात् — therefore; एवम् — like this; विदित्वा — having known; एनम् — this (Atman); न — do not; अनुशोचितुम् — to lament; अर्हसि — you should;.

With sandhi:

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २ २५॥

Anvaya:

अयम् अव्यक्तः, अयम् अचिन्त्यः, अयम् अविकार्यः उच्यते ।

तस्मात् एनम् एवम् विदित्वा (त्वं) अनुशोचितुम् न अर्हसि ।


VERSE 2.26

अथ च एनम् नित्य-जातम् नित्यम् वा मन्यसे मृतम् ।

तथा अपि त्वम् महा-बाहो न एनम् शोचितुम् अर्हसि ॥ २-२६॥

Aphorism

But, even if you think of it as being constantly born and dying, then, O mighty-armed, you should not grieve!

Note:

Constantly born and dying: The self is not born with the body nor does it die with the body. Birth and death of the Jiva are inevitable and therefore it is pointless to grieve over it.

Meaning

अथ — now; च — and; एनम् — this (Atman); नित्य — always; जातम् — born; नित्यम् — perpetually; वा — or; मन्यसे — you think; मृतम् — dead; तथा अपि — so also; त्वम् — you; महा बाहो — O mighty armed one; न — not; एनम् — this (Atman); शोचितुम् — to lament; अर्हसि — deserves.

With sandhi:

अथ च एनम् नित्य जातम् नित्यम् वा मन्यसे मृतम् ।

तथा अपि त्वम् महा बाहो न एनम् शोचितुम् अर्हसि ॥ २ २६॥

Anvaya:

अथ च एनम् नित्य जातम्, नित्यम् वा मृतम् मन्यसे ,

तथा अपि हे महा बाहो! त्वम् एनम् शोचितुम् न अर्हसि ।


VERSE 2.27

जातस्य हि ध्रुवः मृत्युः ध्रुवम् जन्म मृतस्य च ।

तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि ॥ २-२७॥

Aphorism

For, certain is death for the born, and certain is birth for the dead; therefore, over the inevitable, you should not grieve.

Note: Scriptures declare that an enlightened(liberated) soul is free from the cycle of birth and death.

Meaning

जातस्य — of the born; हि — indeed; ध्रुवः — certainly; मृत्युः — death; ध्रुवम् — certain; जन्म — birth; मृतस्य — of the dead; च — and; तस्मात् — therefore; अपरिहार्ये — inevitable; अर्थे — in the matter; न — not; त्वम् — you; शोचितुम् — to lament; अर्हसि — deserve.

With sandhi:

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २ २७॥

Anvaya:

हि जातस्य मृत्युः ध्रुवः, मृतस्य च जन्म ध्रुवम्,

तस्मात् अपरिहार्ये अर्थे त्वम् शोचितुम् न अर्हसि ।


VERSE 2.28

अव्यक्त-आदीनि भूतानि व्यक्त-मध्यानि भारत ।

अव्यक्त-निधनानि एव तत्र का परिदेवना ॥ २-२८॥

Aphorism

O Arjuna, All beings are unmanifest in their beginning, manifested in their middle state, and unmanifest again in their end! What is there to grieve about?

Note:

Beginning here means before birth. Unmanifest means non-perceptible for the senses. The middle state is after birth and before death. The end is after death.

Meaning

अव्यक्त — unmanifest; आदीनि — in the beginning; भूतानि — all beings; व्यक्त — manifest; मध्यानि — in the middle; भारत — O descendant of Bharata; अव्यक्त — unmanifest; निधनानि — destruction; एव — also; तत्र — there; का — what; परिदेवना — lamentation;

With sandhi:

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २ २८॥

Anvaya:

हे भारत! भूतानि अव्यक्त आदीनि व्यक्त मध्यानि अव्यक्त निधनानि एव, तत्र परिदेवना का?


VERSE 2.29

आश्चर्यवत् पश्यति कश्चित् एनम्

आश्चर्यवत् वदति तथा एव च अन्यः ।

आश्चर्यवत् च एनम् अन्यः शृणोति

श्रुत्वा अपि एनम् वेद न च एव कश्चित् ॥ २-२९॥

Aphorism

One sees This (Atman)) as a wonder; another speaks of It as a wonder; another hears of It as a wonder; yet, having heard, none understands It at all.

Note:

The true nature of the Self is a mystery. When the teacher reveals its nature it seems to be wonderful. Not all will have the same understanding of the Self.

A man, on account of his ignorance, confuses Self with the body, mind, sense-organs, relatives, and worldly possessions. Because of this, although it is one with Brahman, It appears to have a separate existence. A man should realize that he is a Soul with a body and not a body that has a Soul. To make us understand this Ramana Maharshi recommended self-inquiry of ‘Who am I?”.

Meaning

आश्चर्यवत् — as amazing; पश्यति — sees; कश्चित् — someone; एनम्— this (Atman); आश्चर्यवत् — as wonderful; वदति — speaks of; तथा — thus; एव — also; च — and; अन्यः — another; आश्चर्यवत् — as wonderful; च — and; एनम् — this (Atman); अन्यः — another; शृणोति— hears of; श्रुत्वा — having heard; अपि — even; एनम् — this soul; वेद — knows; न — not; च — and; एव — certainly; कश्चित् — anyone;

With sandhi:

आश्चर्यवत्पश्यति कश्चिदेन्

माश्चर्यवद्वदति तथैव चान्यः ।

आश्चर्यवच्चैनमन्यः शृणोति

श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २ २९॥

Anvaya:

कश्चित् एनम् आश्चर्यवत् पश्यति, तथा एव च अन्यः

एनम् आश्चर्यवत् वदति, अन्यः च एनम् आश्चर्यवत् शृणोति;

श्रुत्वा अपि च कश्चित् एव न वेद ।


VERSE 2.30

देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत ।

तस्मात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि ॥ २-३०॥

Aphorism

This dweller in the body of everyone, is always indestructible, O descendant of Bharata! Therefore, you should not grieve for any creature.

Meaning

देही — the embodied; नित्यम् — always; अवध्यः — not to be killed; अयम् — this soul; देहे — in the body; सर्वस्य — of all; भारत — O descendant of Bharata; तस्मात् — therefore; सर्वाणि — all; भूतानि — creatures; न — not; त्वम् — you; शोचितुम् — to lament; अर्हसि — deserve;

With sandhi:

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २ ३०॥

Anvaya:

हे भारत! सर्वस्य देहे अयम् देही नित्यम् अवध्यः; तस्मात्

त्वम् सर्वाणि भूतानि शोचितुम् न अर्हसि ।


VERSE 2.31

स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि ।

धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते ॥ २-३१॥

Aphorism

Further, having regard to your own duty, you should not waver, for there is nothing higher for a Kshatriya than a righteous war.

Note:

Gita 18-43 defines the natural qualities of a Kshatriya as, heroism, high spirit, firmness, resourcefulness, dauntlessness in battle, generosity, and sovereignty. Arjuna should uphold his duties as a Kshatriya.

Meaning

स्वधर्मम् — one’s own duty; अपि — also; च — and; अवेक्ष्य — having seen; न — not; विकम्पितुम् — tremble; अर्हसि — you deserve; धर्म्यात् — (than) righteous; हि — indeed; युद्धात् — than war; श्रेयः — better; अन्यत् — other; क्षत्रियस्य — of the Kshatriya; न — not; विद्यते — is; Kshatriya – ruling class, one of the four social orders.

With sandhi:

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ २ ३१॥

Anvaya:

स्वधर्मम् च अपि अवेक्ष्य विकम्पितुम् न अर्हसि । हि क्षत्रियस्य धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते ।


VERSE 2.32

यत् ऋच्छया च उपपन्नं स्वर्ग द्वारम् अपावृतम् ।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥ २-३२॥

Aphorism

Happy are the Kshatriyas, O Partha (Arjuna), who are called upon to fight in such a battle that comes of itself as an open door to heaven!

Note:

According to Hindu scriptures, a Kshatriya who gives up his life in a righteous battle goes to heaven,

Meaning

यत् ऋच्छया — by chance; च — and; उपपन्नं — happened; स्वर्ग — of heavens; द्वारम् — door; अपावृतम् — opened; सुखिनः — happy; क्षत्रियाः — Kshatriyas (the members of the royal order); पार्थ — O son of Partha; लभन्ते — obtain; युद्धम् — battle; ईदृशम् — like this;

With sandhi:

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ २ ३२॥

Anvaya:

हे पार्थ! यत् ऋच्छया च उपपन्नम् ईदृशम् अपावृतम्

स्वर्ग द्वारम् युद्धम् सुखिनः क्षत्रियाः लभन्ते ।


VERSE 2.33

अथ चेत् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि ।

ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि ॥ २-३३॥

Aphorism

But, if you will not fight in this righteous war, then, having abandoned your duty and fame, you will incur sin.

Meaning

अथ — now; चेत् — if; त्वम् — you; इमम् — this; धर्म्यम् — righteous; सङ्ग्रामम् — battle; न — not; करिष्यसि — perform; ततः — then; स्वधर्मम् — your own duty; कीर्तिम् — fame; च — and; हित्वा — having thrown away; पापम् — sin; अवाप्स्यसि — you will get;

With sandhi:

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २ ३३॥

Anvaya:

अथ त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि चेत्, ततः

स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि ।


VERSE 2.34

अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् ।

सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते ॥ २-३४॥

Aphorism

People will recount forever your dishonour, and to an honored person, dishonor is worse than death.

Note:

The Lord uses strong words to raise the spirit of Arjuna.

Meaning

अकीर्तिम् — dishonour; च — and; अपि — also; भूतानि — beings; कथयिष्यन्ति — will speak; ते — of you; अव्ययाम् — undiminishing; सम्भावितस्य — for an honoured man; च — and; अकीर्तिः — dishonour; मरणात् — than death; अतिरिच्यते — exceeds;

With sandhi:

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ १ ३४॥

Anvaya:

अपि च भूतानि ते अव्ययाम् अकीर्तिम् कथयिष्यन्ति ।

सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते ।


VERSE 2.35

भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महारथाः ।

येषाम् च त्वम् बहु-मतः भूत्वा यास्यसि लाघवम् ॥ २-३५॥

Aphorism

The great chariot warriors will think that you have withdrawn from the battle because of fear, and you will be lightly held by them who have highly esteemed you.

Meaning

भयात् — from fear; रणात् — from the battle; उपरतम् — withdrawn; मंस्यन्ते — they will think; त्वाम् — you; महारथाः — the great chariot-warriors; येषाम् — for whom; च — and; त्वम् — you; बहुमतः — in great esteem; भूत्वा — having been; यास्यसि — you will go; लाघवम् — cheap;

With sandhi:

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ २ ३५॥

Anvaya:

महारथाः त्वाम् भयात् रणात् उपरतम् मंस्यन्ते;

येषाम् च त्वम् बहु मतः भूत्वा, लाघवम् यास्यसि ।


VERSE 2.36

अवाच्य वादान् च बहून् वदिष्यन्ति तव अहिताः ।

निन्दन्तः तव सामर्थ्यम् ततः दुःखतरम् नु किम् ॥ २-३६॥

Aphorism

Thy enemies also, ridiculing your ability, will speak many abusive words. What is more painful than this?

Meaning

अवाच्य — improper (abusive); वादान् — words; च — and; बहून् — many; वदिष्यन्ति — will say; तव — your; अहिताः — enemies; निन्दन्तः — while ridiculing; तव — your; सामर्थ्यम् — ability; ततः — than this; दुःखतरम् — more painful; नु — indeed; किम् — what .

With sandhi:

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ २ ३६॥

Anvaya:

तव सामर्थ्यम् निन्दन्तः तव अहिताः च बहून् अवाच्य वादान्

वदिष्यन्ति । ततः किम् नु दुःखतरम्?


VERSE 2.37

हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम् ।

तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥ २-३७॥

Aphorism

Slain, you will obtain heaven; victorious, you will enjoy (to rule) the earth; therefore, stand up, O son of Kunti, resolved to fight!

Note:

Whatever may be the outcome Arjuna will be the winner if he agrees to fight this war.

Meaning

हतः — slain; वा — or; प्राप्स्यसि — you will obtain; स्वर्गम् — the heaven; जित्वा — having conquered; वा — or; भोक्ष्यसे — you enjoy; महीम् — the world; तस्मात् — therefore; उत्तिष्ठ — stand up; कौन्तेय — O son of Kunti; युद्धाय — to fight; कृत — made; निश्चयः — in certainty;

With sandhi:

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २ ३७॥

Anvaya:

हतः वा स्वर्गम् प्राप्स्यसि, जित्वा वा महीम् भोक्ष्यसे ।

हे कौन्तेय! तस्मात् युद्धाय कृत निश्चयः उत्तिष्ठ ।


VERSE 2.38

सुख दुःखे समे कृत्वा लाभ अलाभौ जय-अजयौ ।

ततः युद्धाय युज्यस्व न एवम् पापम् अवाप्स्यसि ॥ २-३८॥

Aphorism

Fight for the sake of fighting, without considering happiness or distress, loss or gain, victory or defeat, and by so doing you shall never incur sin.

Note:

Here the Lord emphasizes the need for action without attachment to the results. The injunction to fight is only incidental.

Meaning

सुख — happiness; दुःखे — and distress; समे — in equanimity; कृत्वा — having made; लाभ — profit; अलाभौ — loss; जय — victory; अजयौ — defeat; ततः — thereafter; युद्धाय — for the sake of fighting; युज्यस्व — engage (fight); न — not; एवम् — in this way; पापम् — sin; अवाप्स्यसि — you will get;

With sandhi:

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥

Anvaya:

सुख दुःखे लाभ अलाभौ जय अजयौ समे कृत्वा ततः युद्धाय युज्यस्व । एवम् पापम् न अवाप्स्यसि ।


VERSE 2.39

एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम् शृणु ।

बुद्ध्या युक्तः यया पार्थ कर्म बन्धम् प्रहास्यसि ॥ २-३९॥

Aphorism

Thus far I have described this knowledge of Sankhya to you. Now listen as I explain it in terms of Yoga and with this knowledge, O son of Pritha, you will break through the bondage of Karma.

Note:

Sankhya philosophy exposes the true nature of Absolute Reality. This wisdom is also called Gnana yoga, the path of knowledge. Knowledge of Reality destroys ignorance which is the cause of the cycle of birth and death. Working without fruitive results is the path of Karma Yoga or Yoga of Action. When Work is performed without attachment, it will not result in incurring any further Karma. Sankhya yoga is meant for people with a keen intellect for discrimination and undaunted willpower for renunciation. Other seekers should resort to Karma yoga without attachment to their actions.

Sankhya is strongly dualistic and has historically been theistic or nontheistic, with some later authors being atheistic. But it accepts the authority of Vedas. It contrasts with Vedanta which is strongly non-dualistic and theistic. Therefore Sankhya is not popular these days.

However, the Lord seems to have a predilection for Sankhya philosophy. Because he says in verses 10-26 "Among perfected beings, I am the sage Kapila". Sage Kapila is traditionally credited as the founder of the Sankhya school.

In this verse and those that follow, the Lord describes Karma yoga which is a special contribution of the Gita to the Vedantic philosophy.

Meaning

एषा — all this; ते — unto you; अभिहिता — described; साङ्ख्ये — by analytical study; बुद्धिः — intelligence; योगे — in work without fruitive result; तु — but; इमाम् — this; शृणु — just hear; बुद्ध्या — by intelligence; युक्तः — dovetailed; यया — by which; पार्थ — O son of Pritha; कर्म — of reaction; बन्धम् — bondage; प्रहास्यसि — you can be released from;

With sandhi:

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २-३९॥

Anvaya:

हे पार्थ! एषा ते साङ्ख्ये बुद्धिः अभिहिता; योगे तु इमाम् (बुद्धिं) शृणु । यया बुद्ध्या युक्तः (त्वं) कर्म बन्धम् प्रहास्यसि ।


VERSE 2.40

न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते ।

स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात् ॥ २-४०॥

Aphorism

In this, there is no loss of effort, nor is there transgression, and even a little knowledge (of Dharma) on this path can protect one from great fear.

Note:

If karma yoga is undertaken but not completed will not result in any loss. Whereas a religious rite or ceremony, undertaken for a specific purpose, is carelessly performed or left unfinished may produce negative results instead of gain. This is like the wrong medicine for an illness.

Great fear: Fear of the unending cycle of births and death.

Meaning

न — not; इह — here; अभिक्रम — of effort ; नाशः — loss; अस्ति — there is; प्रत्यवायः — transgression ; न — not; विद्यते — there is; स्वल्पम् — a little; अपि — although; अस्य — of this; धर्मस्य — duty; त्रायते — protects; महतः — from very great; भयात् — fear;

With sandhi:

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २-४०॥

Anvaya:

इह अभिक्रम नाशः न अस्ति, प्रत्यवायः न विद्यते, अस्य धर्मस्य स्वल्पम् अपि (अनुष्ठानं) महतः भयात् त्रायते ।


VERSE 2.41

व्यवसाय-आत्मिका बुद्धिः एका इह कुरु नन्दन ।

बहु शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम् ॥ २-४१॥

Aphorism

In this, O the delight of the Kurus! There is only one resolute thought, but the thoughts of the irresolute are many-branched and unending.

Note:

In this: Karma Yoga is done without seeking the results of the actions performed.

Irresolute here refers to those who perform actions with a desire for results.

Resolute thought: one pointed thought;

Meaning

व्यवसाय determination; आत्मिका — soul; बुद्धिः — intelligence; एका — one; इह — here; कुरु नन्दन — O delight of the Kurus; बहु — many; शाखाः — branches; हि — indeed; अनन्ताः — endless; च — and; बुद्धयः — thoughts; अव्यवसायिनाम् — of the irresolute;.

With sandhi:

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ २-४१॥

Anvaya:

हे कुरु नन्दन! इह व्यवसाय आत्मिका एका बुद्धिः ।

अव्यवसायिनाम् हि बुद्धयः अनन्ताः बहु शाखाः च ।


VERSE 2. 42

याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति अविपश्चितः ।

वेद वाद रताः पार्थ न अन्यत् अस्ति इति वादिनः ॥ २-४२॥

Aphorism

Flowery speech is made by the foolish, rejoicing in the letter of the Vedas, O Partha, saying “There is nothing but this.”

Note:

Nothing: They ignore the Upanishads known as Jnana Kanda. Vedas consist of two parts, the first deals with rites and sacrifices, and the other deals with the Knowledge of the identity of the Self with the Brahman. The first part is called Karma Kanda and the second part is called Jnana Kanda, The second part leads to the liberation of the Self from rebirths.

However, the performance of rites and ceremonies without desiring results will lead to the purification of the mind which will lead to Knowledge of the Self. Otherwise, rites in the Karma Kanda are performed for getting wealth, health, progeny, and attainment of heaven.

Meaning

याम् — which; इमाम् — this; पुष्पिताम् — flowery; वाचम् — speech; प्रवदन्ति — say; अविपश्चितः — the unwise; वेद — the Veda; वाद — in the word; रताः — rejoicing; पार्थ — O Partha; न — not; अन्यत् — other; अस्ति — is; इति — thus; वादिनः — saying;

With sandhi:

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२॥

Anvaya:

Please see the next verse.


VERSE 2. 43

काम आत्मानः स्वर्ग पराः जन्म कर्म फल प्रदाम् ।

क्रिया विशेष बहुलाम् भोग ऐश्वर्य गतिम् प्रति ॥ २-४३॥

Aphorism

With a desire for self, with heaven for goal, they offer birth as the fruit of action and prescribe many and various ceremonies for the attainment of pleasure and opulence.

Note:

Offer birth: They desire wealth and power and to enjoy them they need to be born in this world. While enjoying the wealth and power on earth they may commit some sins that will lead to further births. Thus the cycle of birth and death is perpetuated.

Various ceremonies: The Karma Kanda (the first part) of the Vedas prescribes different ceremonies for different goals such as getting wealth, going to heaven, etc. The ceremonies are performed by offering oblations into a fire made for this purpose.

Meaning

काम — desire; आत्मानः — soul; स्वर्ग — heaven; पराः — highest; जन्म — (re) birth; कर्म फल — fruit; प्रदाम् — gives; क्रिया — of actions; विशेष — special; बहुलाम् — varieties; भोग — enjoyment; ऐश्वर्य — and opulence; गतिम् — gaining; प्रति — towards;

With sandhi:

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ २-४३॥

Anvaya (42-44):

हे पार्थ! वेद वाद रताः, अन्यत् न अस्ति इति वादिनः,

अविपश्चितः, काम आत्मानः, स्वर्ग पराः, भोग ऐश्वर्य गतिम्

प्रति क्रिया विशेष बहुलाम् जन्म कर्म फल प्रदाम् याम्

इमाम् पुष्पिताम् वाचम् प्रवदन्ति, तया अपहृत चेतसाम्


VERSE 2.44

भोग ऐश्वर्य प्रसक्तानाम् तया अपहृत चेतसाम् ।

व्यवसाय आत्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४॥

Aphorism

Those who cling to pleasure and lordship, whose mind is enticed by such teachings, will not be resolute in their determination and do not practice high concentration.

Note:

Samadhi: The highest level of meditation.

Meaning

भोग — in enjoyment; ऐश्वर्य — and lordship (opulence); प्रसक्तानाम् — of the attached; तया — by that; अपहृत — dragged away; चेतसाम् — mind; व्यवसाय आत्मिका — determinate; बुद्धिः — thought; समाधौ — in samaadhi; न — not; विधीयते — is fixed;

With sandhi:

भोग ऐश्वर्य प्रसक्तानाम् बुद्धिः व्यवसाय आत्मिका (भूत्वा)

समाधौ न विधीयते ।

Anvaya: Please see VERSE 2.42


VERSE 2.45

त्रैगुण्य विषयाः वेदाः निस्त्रैगुण्यः भवार्जुन ।

निर्द्वन्द्वः नित्य सत्त्वस्थः निर्योगक्षेमः आत्मवान् ॥ २-४५॥

Aphorism

The Vedas deal mainly with the subject of the three gunas (modes of material nature). O Arjuna, become transcendental to these three modes. Be free from all pairs of opposites and be established in sattva. Do not try to acquire what you don’t have or try to preserve what you have. Be established in the Self.

Note:

Vedas consist of two main parts – Karma Kanda or the ritual part and Jnana Kanda the knowledge part. The knowledge part is also called the Upanishads. The Vedas mentioned here refer only to the Karma Kanda portion.

The word ‘guna’ is a technical term in Sankhya philosophy. Vedanta has accepted the concept of Gunas. According to Sankhya, there are two principal categories, Purusha and Prakriti. Purusha denotes the Atman and Prakriti is everything else. Prakriti consists of three Gunas. In this verse, the Lord says that the Vedas deal with the three Gunas.

Three gunas (गुण) are Sattva, Rajas, and Tamas.

सत्त्वSattva is the quality of balance, harmony, goodness, purity, holism, creativity, peacefulness, and virtue.

रजस्Rajas is the quality of passion, activity, egoism, individualization, movement, and dynamism.

तमस्Tamas is the quality disorder, anxiety, impurity, delusion, negativity, dullness or inactivity, apathy, inertia, violence, viciousness, and ignorance.

Constantly dwells in sattva = One should establish oneself in sattvic mode and not be swayed by the other two extremes. Sattva enables aspiring seekers to go beyond the gunas and attain freedom.

Pairs of opposites = Duality consists of pairs of opposites (द्वन्द्वः) such as pleasure and pain, heat and cold, gain and loss, victory, and defeat, honor and dishonor, praise and censure.

Be established in the Self. = This is the state of realized sage (Thuriya).

Meaning

त्रै गुण्य — the three attributes(gunas) ; विषयाः — on the subject matter; वेदाः — Vedas; निस्त्रै गुण्यः — without the three attributes(gunas) ; भव — be; अर्जुन — O Arjuna; निर्द्वन्द्वः — without pairs of opposites; नित्य सत्त्वस्थः — constantly dwells in satva; निर्योगक्षेमः — not earning and maintaining; आत्मवान् — full of the Self;

With sandhi:

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २-४५॥

Anvaya:

हे अर्जुन! वेदाः त्रैगुण्य विषयाः । (त्वं) निस्त्रैगुण्यः,

नित्य सत्त्वस्थः, निर्द्वन्द्वः, निर्योगक्षेमः आत्मवान् भव ।


VERSE 2.46

यावान् अर्थः उदपाने सर्वतः सम्प्लुतोदके ।

तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६॥

Aphorism

All the Vedas are as useful to a learned Brahmin as a tank in a place that is covered with a flood of water.

Note:

A well is useless in a place where there is a great reservoir of water. Infinite bliss enjoyed by the enlightened person is like the reservoir and the happiness from the performance of the rites is like that of a well. Infinite bliss encompasses all kinds of happiness. For a realized Sage Vedas are of no use. Vedas are useful only for unrealized persons. Through the performance of rites, without attachment to the results, prescribed in the Vedas, one becomes fit for the path of knowledge (jnana yoga).

Meaning

यावान् — as much; अर्थः — use; उदपाने — ia small pool of water (well); सर्वतः — everywhere; सम्प्लुतोदके — in a great reservoir of water; तावान् — so much; सर्वेषु — all; वेदेषु — in the Vedas; ब्राह्मणस्य — of the Brahmin; विजानतः — of learned;

With sandhi:

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।

तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६॥

Anvaya:

यावान् अर्थः उदपाने (तावान्) सर्वतः सम्प्लुतोदके (भवति) (तथा यावान् अर्थः) सर्वेषु वेदेषु तावान् विजानतः ब्राह्मणस्य (भवति)


VERSE 2.47

कर्मणि एव अधिकारः ते मा फलेषु कदाचन ।

मा कर्म फल हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि ॥ २-४७॥

Aphorism

You are entitled to perform your prescribed duty, but you are not entitled to the fruits of action. Let not your motive be the results of your actions, and never be attached to inaction.

Note:

Action (karma) produces bondage as the fruits of the action will have to be enjoyed in the present or future life. That is why Nishkamya karma (action performed without expectation of results of the action) is prescribed. The word karma has several Meanings. Primary Meaning is action. It also implies the fruits that have to be enjoyed by the Jiva. It also means the duty of a person. In this conVERSE, it is Arjuna’s karma (duty) to fight a just war.

Meaning

कर्मणि — in prescribed duties; एव — certainly; अधिकारः — right; ते — of you; मा — not; फलेषु — in the fruits; कदाचन — at any time; मा — not; कर्म — the work; फल — in the result of; हेतुः — cause; भूः — become; मा — not; ते — of you; सङ्गः — attachment; अस्तु — there should be; अकर्मणि — in not doing prescribed duties;

With sandhi:

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७॥

Anvaya:

ते अधिकारः कर्मणि एव; कदाचन फलेषु मा । कर्म फल हेतुः

मा भूः ते सङ्गः () अकर्मणि मा अस्तु ।


VERSE 2.48

योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय ।

सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते ॥ २-४८॥

Aphorism

Perform your duty, O Arjuna, dwelling in union with the divine, renouncing all attachments, and remaining balanced evenly in success or failure. Such equilibrium is called yoga.

Notes:

Yoga = Dwelling in union with the divine.

Attachment = A seeker should consider himself as an instrument of God for the performance of that action. He surrenders and dedicates his actions to the Lord and remains unconcerned about the outcome of his actions. This practice over time dissolves the individuality oneself and then one begins to identify oneself with Brahman.

Meaning

योगस्थः — Yoga attached; कुरु — perform; कर्माणि — your duties; सङ्गम् — attachment; त्यक्त्वा — having abandoned; धनञ्जय — O Dhananjaya; सिद्धि असिद्ध्योः — in success and failure; समः — the same; भूत्वा — having become; समत्वम् — equality; योगः — yoga; उच्यते — is called;

With sandhi:

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८॥

Anvaya:

हे धनञ्जय! सङ्गम् त्यक्त्वा, सिद्धि असिद्ध्योः समः

भूत्वा, योगस्थः कर्माणि कुरु । समत्वम् योगः उच्यते ।


VERSE 2.49

दूरेण हि अवरम् कर्म बुद्धि योगात् धनञ्जय ।

बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥ २-४९॥

Aphorism

O Dhananjaya, mere action is far lower than the jnana yoga (higher Knowledge). Take refuge in pure reason (higher Knowledge). Those who work for fruit are pitiable.

Note:

Pure reason = Knowledge(jnana) of the Supreme Reality. This Knowledge alone should be the goal of a person.

Mere action = Merely performing the rituals prescribed in the Karma Kanda of the Vedas.

Fruit = Benefit from the performance of Vedic rituals.

Meaning

दूरेण — by far; हि — indeed; अवरम् — inferior; कर्म — action; बुद्धि — intellect; योगात् — than the Yoga; धनञ्जय — O conqueror of wealth; बुद्धौ — in the Pure Reason; शरणम् — surrender; अन्विच्छ — seek; कृपणाः — pitiable; फल — fruit; हेतवः — cause;

With sandhi:

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९॥

Anvaya:

हे धनञ्जय! कर्म बुद्धि योगात् दूरेण अवरम् हि ।

बुद्धौ शरणम् अन्विच्छ । फल हेतवः कृपणाः ।


VERSE 2.50

बुद्धि युक्तः जहाति इह उभे सुकृत दुष्कृते ।

तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५०॥

Aphorism

Possessed of knowledge, one casts off in this life, both good and evil deeds, and devotes oneself to Yoga which is a skill in action.

Note:

Actions are of a binding nature, but when performed with equanimity of mind they lose that nature. Equanimity means treating both success and failure equally. The real aim of the action is knowledge and with knowledge, one attains detachment and ultimate freedom.

Meaning

बुद्धि — with knowledge; युक्तः — endowed; जहाति — throws away; इह — here; उभे — both; सुकृत — good deed; दुष्कृते — bad deed; तस्मात् — therefore; योगाय — for Yoga; युज्यस्व — be united, (prepare); योगः — Yoga; कर्मसु — in actions; कौशलम् — skill;

With sandhi:

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५०॥

Anvaya:

इह बुद्धि युक्तः उभे सुकृत दुष्कृते जहाति । तस्मात् योगाय युज्यस्व । योगः कर्मसु कौशलम् ।


VERSE 2.51

कर्म जम् बुद्धि युक्ताः हि फलं त्यक्त्वा मनीषिणः ।

जन्म बन्ध विनिर्मुक्ताः पदम् गच्छन्ति अनामयम् ॥ २-५१॥

Aphorism

The Sages endowed with knowledge, renounce the fruits of action. By that they are liberated from the bondage of birth and they go to a blissful state.

Note:

It is the desire for the fruits of actions that causes bondage. If the actions are done for the sake of God and not for oneself, one is released from the cycle of birth and death.

Bondage of birth – Birth is associated with suffering and death and hence it is a form of bondage. It is the result of actions of the previous life.

Blissful state – liberation.

Meaning

कर्म — action; जम् — born of; बुद्धि युक्ताः — endowed with knowledge; हि — certainly; फलं — results; त्यक्त्वा — having abandoned; मनीषिणः — the wise; जन्म — of birth; बन्ध — bondage; विनिर्मुक्ताः — freed; पदम् — the state; गच्छन्ति — they go; अनामयम् — painless.

With sandhi:

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१॥

Anvaya:

हि बुद्धि युक्ताः मनीषिणः कर्मजम् फलं त्यक्त्वा

जन्म बन्ध विनिर्मुक्ताः अनामयम् पदम् गच्छन्ति ।


VERSE 2.52

यदा ते मोह कलिलम् बुद्धिः व्यतितरिष्यति ।

तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥

Aphorism

When your mind shall escape from the tangle of delusion then you shall be indifferent to what has been heard and shall be heard.

Note:

The tangle of delusion is the failure to discriminate between the Self and the non-Self or ego and turns the mind toward the objects of senses.

What has been heard – These are finite in nature and therefore are considered futile.

Meaning

यदा — when; ते — your; मोह — of delusion; कलिलम् — the confusion; बुद्धिः — mind; व्यतितरिष्यति — will cross; तदा — then; गन्तासि — you shall go; निर्वेदम् — to indifference; श्रोतव्यस्य — what should be heard; श्रुतस्य — what has been already heard; च — and;

With sandhi:

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥

Anvaya:

यदा ते बुद्धिः मोह कलिलम् व्यतितरिष्यति, तदा श्रोतव्यस्य

श्रुतस्य च निर्वेदम् गन्तासि ।


VERSE 2.53

श्रुति विप्रतिपन्ना ते यदा स्थास्यति निश्चला ।

समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि ॥ २-५३॥

Aphorism

When your mind not bewildered by what you have heard, shall stand immovable, fixed in contemplation, then you shall attain Yoga.

Note:

What you have heard – The conflicting views of various religious books including the Vedas, regarding happiness and other ends of life.

Yoga – Complete absorption in God-consciousness, or Samaadhi, as a result of discrimination between the Self and the non-Self.

Meaning

श्रुति — of Vedas; विप्रतिपन्ना — distracted; ते — you; यदा — when; स्थास्यति — shall stand; निश्चला — not moved; समाधौ — in Samaadhi ( very high level of consciousness); अचला — not moved; बुद्धिः — intelligence; तदा — then; योगम् — to Yoga; अवाप्स्यसि — you will attain;

With sandhi:

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३॥

Anvaya:

यदा श्रुति विप्रतिपन्ना ते बुद्धिः निश्चला (भूत्वा)

समाधौ अचला स्थास्यति, तदा योगम् अवाप्स्यसि ।


VERSE 2.54

अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किम् प्रभाषेत किम् आसीत व्रजेत किम् ॥ २-५४॥

Aphorism

Arjuna said: O Kesava, what is the description of one whose mind is stable in contemplation? How does he speak? How does he sit, and how does he walk?

Note:

Arjuna asks the marks of an enlightened person (स्थितप्रज्ञः). Lord's answer comes from the next verse to the end of this chapter. He explains how the influence of wisdom manifests itself when a man comes out of Samadhi. He also explains the means of getting that wisdom.

Meaning

अर्जुन उवाच — Arjuna said;

स्थित — steady; प्रज्ञस्य — of one whose intelligence; का — what; भाषा — definition; समाधिस्थस्य — of one seated in Samadhi; केशव — O Kesava; स्थितधीः — whose mind is fixed; किम् — what; प्रभाषेत — speaks; किम् — how; आसीत — sits; व्रजेत — walks; किम् — how.

With Sandhi:

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४॥

Anvaya:

हे केशव! समाधिस्थस्य स्थितप्रज्ञस्य का भाषा?

स्थितधीः किम् प्रभाषेत? किम् आसीत? किम् व्रजेत?


VERSE 2.55

श्रीभगवान् उवाच

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।

आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञः तदा उच्यते ॥ २-५५॥

Aphorism

The Lord said: O Partha! When a man gives up all forms of desires of the heart, and when he is satisfied in the Self by the Self, then he is one of steady mind.

Note:

Realized person enjoys bliss without anything. In other words, he is happy by himself without the need for any external possessions. All the pleasures of the world are worthless to an illumined sage who is ever content in the immortal Self. The innermost Self of a person is the ultimate reality (Brahman).

Meaning

श्रीभगवान् उवाच — the Lord said;

प्रजहाति — throws away; यदा — when; कामान् — desires; सर्वान् — all; पार्थ — O Partha; मनः — mind; गतान् — gone; आत्मनि — in the Self; एव — only; आत्मना — by the Self; तुष्टः — satisfied; स्थितप्रज्ञः — steadfast in mind; तदा — then; उच्यते — is said.

With sandhi:

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५॥

Anvaya:

हे पार्थ! यदा ( नरः) मनोगतान् सर्वान् कामान्

प्रजहाति, आत्मनि एव आत्मना तुष्टः (भवति) तदा स्थितप्रज्ञः उच्यते ।


VERSE 2.56

दुःखेषु अनुद्विग्न-मनाः, सुखेषु विगत-स्पृहः,

वीत-राग-भय-क्रोधः मुनिः स्थितधीः उच्यते ॥ २-५६॥

Aphorism

One who is not disturbed in mind by adversity, who is indifferent amid pleasure, and who is free from attachment, fear, and anger, is called a sage of steady mind.

Notes:

There are three types of adversities. AdhyAtmika – arising from disorder of the body; Adhibhautika – arising from external objects such as snakes; and Adhidaivika arising from the action of cosmic forces such as storms and earthquakes.

Fear – He is free from fear because he is constantly in communion with his inner Self.

Anger – He is free from anger because he regards all beings as his own Self. In Advaita Vedanta (non-dualism) the higher Self (Brahman and the Self (soul) are one and the same. By definition, Brahman is only one. Therefore, the Self(soul) is also the only one that all beings share. You ask how your soul may be the same as that of the person sitting next to you. It is explained like this. Let us say that there are 10 mirrors in a room. You see 10 images of yourself in all the 10 mirrors. If one mirror is spoilt, you do not see your image in that mirror. There is no change in you. Similarly, the soul of the living being is an image of Brahman. Genesis 1:27 says "So God created mankind in his own image,". So what about animals, birds, and plants that have a life? They too have their soul from the Brahman.

When there is pleasure, there will be more longing for pleasure. In the case of a wise man, pleasure does not create a longing for more pleasure.

A sage is one who contemplates and meditates and is wise.

Meaning

दुःखेषु — in pains; अनुद्विग्न — not agitated ; मनाः — in mind; सुखेषु — in happiness; विगत — gone; स्पृहः — desire; वीत — gone; राग — desire; भय — fear; क्रोधः — and anger; मुनिः — sage; स्थितधीः — steady-minded (see 54); उच्यते — is called.

With sandhi:

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६॥

Anvaya:

दुःखेषु अनुद्विग्न मनाः, सुखेषु विगत स्पृहः,

वीत राग भय क्रोधः मुनिः स्थितधीः उच्यते ।


VERSE 2.57

यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम् ।

न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥

Aphorism

One who is without attachment on every side and whatever happens, good or bad, who neither likes nor dislikes; his wisdom is firmly established.

Meaning

यः — one who; सर्वत्र — everywhere; अनभिस्नेहः — UN-attached; तत् — that; तत् — that; प्राप्य — having obtained; शुभ — pleasant; अशुभम् — unpleasant ; न — not; अभिनन्दति — rejoices; न — not; द्वेष्टि — hates; तस्य — of him; प्रज्ञा — intelligence; प्रतिष्ठिता — is established.

With sandhi:

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥

Anvaya:

यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ अशुभम् ।

न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २ ५७॥


VERSE 2.58

यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः ।

इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥

Aphorism

When he completely withdraws his senses from the objects, as a tortoise draws its limbs, then his wisdom is firmly established.

Note: The tortoise, when frightened, draws in its limbs instantly and without effort. In yoga withdrawing the senses, from external objects, like the tortoise is called pratyAhAra. In this process, the mind is fixed on the Self without paying attention to the sense organs.

Meaning

यदा — when; संहरते — draws in; च — and; अयम् — this one; कूर्मः — tortoise; अङ्गानि — limbs; इव — like; सर्वशः — everywhere; इन्द्रियाणि — the senses; इन्द्रिय — senses; अर्थेभ्यः — from the objects; तस्य — of him; प्रज्ञा — the intelligence; प्रतिष्ठिता — is established;

With sandhi:

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥

Anvaya:

कूर्मः अङ्गानि इव, यदा अयम् इन्द्रिय अर्थेभ्यः इन्द्रियाणि

सर्वशः संहरते, (तदा) तस्य प्रज्ञा प्रतिष्ठिता च ।


VERSE 2.59

विषयाः विनिवर्तन्ते निराहारस्य देहिनः ।

रस वर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते ॥ २-५९॥

Aphorism

The objects of the senses turn away from the man practicing abstinence, but not the taste for them. But even this longing for the taste also turns away from seeing the Supreme.

Note:

Ordinary people refraining from sense pleasures will have some craving for them. But a Yogi experiencing the Supreme will have his desires fading away effortlessly.

Repression or inhibition of sense pleasures due to selfish cause is different from the self-control practiced by a Yogi. In the former case, there is only physical abstention, but the mind retains its longing. In the case of Yogi, the desire disappears altogether. Besides, the Yogis enjoy supreme bliss and do not need any other forms of happiness.

Foodless(निराहारस्य): practising abstinence.

Meaning

विषयाः — objects of sense; विनिवर्तन्ते — turn away; निराहारस्य — (of the) foodless; देहिनः — of the embodied; रस — taste; वर्जम् — giving up; रसः — taste; अपि — even; अस्य — of him; परम् — the Supreme; दृष्ट्वा — having seen; निवर्तते — turns away.

With sandhi:

विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९॥

Anvaya:

निराहारस्य देहिनः विषयाः रसवर्जम् विनिवर्तन्ते ।

अस्य रसः अपि परम् दृष्ट्वा निवर्तते


VERSE 2.60

यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥

Aphorism

O son of Kunti! The turbulent senses do violently carry away the mind of a wise man though he is striving for perfection.

Note:

An aspirant should always be vigilant and not relax his effort for self-control.

Violently carry away: This is how the mind uncontrollably engages in thoughts.

Meaning

यततः — of the endeavouring; हि — indeed; अपि — even; कौन्तेय — O son of Kunti; पुरुषस्य — of man; विपश्चितः — wise; इन्द्रियाणि — the senses; प्रमाथीनि — agitating; हरन्ति — carry away; प्रसभं — impetuously; मनः — the mind.

With sandhi:

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥

Anvaya:

कौन्तेय! प्रमाथीनि इन्द्रियाणि यततः विपश्चितः अपि

पुरुषस्य मनः प्रसभं हरन्ति हि ।


VERSE 2.61

तानि सर्वाणि संयम्य युक्तः आसीत मत्परः ।

वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥

Aphorism

Having restrained them all he should sit steadfast, intent on Me; his wisdom is steady and his senses are under control.

Note:

Restrained them: the thoughts;

Intent on Me: Meditating on Me.

A devotee effortlessly maintains self-control through his devotion to god and surrendering to god.

Meaning

तानि — them; सर्वाणि — all; संयम्य — having restrained; युक्तः — joined; आसीत — should sit; मत्परः — devoted to Mel; वशे — in control; हि — indeed; यस्य — whose; इन्द्रियाणि — senses; तस्य — of him; प्रज्ञा — the intelligence; प्रतिष्ठिता — (is) established;

With sandhi:

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥

Anvaya:

तानि सर्वाणि संयम्य युक्तः मत् परः आसीत । हि यस्य वशे

इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।


VERSE 2.62

ध्यायतः विषयान् पुंसः सङ्गः तेषु उपजायते ।

सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते ॥ २-६२॥

Aphorism

When a man thinks of objects, attachment to them arises; from attachment, desire is born; from desire, anger arises.

Meaning

ध्यायतः — (of the) meditating; विषयान् — sense objects; पुंसः — of the man; सङ्गः — attachment; तेषु — in them; उपजायते — is born; सङ्गात् — from attachment; सञ्जायते — arises; कामः — desire; कामात् — from desire; क्रोधः — anger; अभिजायते — is produced;.

With sandhi:

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।

सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥

Anvaya:

विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते ।

सङ्गात् कामः सञ्जायते । कामात् क्रोधः अभिजायते ।


VERSE 2.63

क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति विभ्रमः ।

स्मृति भ्रंशात् बुद्धि नाशः बुद्धि नाशात् प्रणश्यति ॥ २-६३॥

Aphorism

From anger comes delusion; from delusion the loss of memory; from loss of memory the destruction of discrimination; from the destruction of discrimination he perishes.

Note:

A person yielding to anger loses his memory of the scriptures and his Guru’s teachings as well as his past experiences. Nothing worse can happen to him.

Meaning

क्रोधात् — from anger; भवति — becomes; सम्मोहः — delusion; सम्मोहात् — from delusion; स्मृति — of memory; विभ्रमः — confusion; स्मृति — memory ; भ्रंशात् — from confusion; बुद्धिनाशः — loss of discrimination; बुद्धि नाशात् — and from loss of discrimination; प्रणश्यति — perishes;

With sandhi:

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।

स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३॥

Anvaya:

क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति विभ्रमः ।

स्मृति भ्रंशात् बुद्धि नाशः बुद्धि नाशात् प्रणश्यति


VERSE 2.64

क्तैः तु विषयान् इन्द्रियैः चरन् ।

आत्म वश्यैः विधेय आत्मा प्रसादम् अधिगच्छति ॥ २-६४॥

Aphorism

But the self-controlled man, moving amongst objects with the senses under control, and free from attraction and repulsion, attains peace.

Note:

Attraction and repulsion are natural in the presence of pleasant and unpleasant objects. The seeker after God, with his mind completely under his control allows his senses to enjoy those objects that are necessary only for the maintenance of life.

This verse answers Arjuna’s question: “How does he move?”.

Meaning

राग — attraction; द्वेष — repulsion; विमुक्तैः — by one who has become free from; तु — indeed; विषयान् — objects; इन्द्रियैः — with senses; चरन् — moving; आत्म — the Self; वश्यैः — controlled; विधेय- subdued; आत्मा — self; प्रसादम् — to peace; अधिगच्छति — attains;

With sandhi:

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् ।

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४॥

Anvaya:

विधेय आत्मा तु राग द्वेष विमुक्तैः आत्म वश्यैः इन्द्रियैः

विषयान् चरन् प्रसादम् अधिगच्छति ।


VERSE 2.65

प्रसादे सर्व-दुःखानाम् हानिः अस्य उपजायते ।

प्रसन्न-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥

Aphorism

In that serenity all the sorrow disappears for him; the intellect of the serene mind soon becomes steady.

Note:

Sorrow – Sorrow is due to a lack of discrimination between the Self and the non-Self, true and false. With the acquisition of knowledge the sorrow ends.

Steady – Centred on the Self.

The goal of a seeker is a serene mind and steady intelligence. Therefore with a mind without attachment and hate, he should enjoy only those objects that are indispensable for the preservation of his body.

Meaning

प्रसादे — in the state of peace; सर्व — of all; दुःखानाम् — pains; हानिः — destruction; अस्य — of him; उपजायते — arises; प्रसन्नचेतसः — peaceful mind; हि — indeed; आशु — quickly; बुद्धिः — intelligence; पर्यवतिष्ठते — settles down;.

With Sandhi:

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥

Anvaya:

प्रसादे अस्य सर्व दुःखानाम् हानिः उपजायते ।

प्रसन्न चेतसः हि बुद्धिः आशु पर्यवतिष्ठते ।


VERSE 2.66

न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना ।

न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम् ॥ २-६६॥

Aphorism

The man whose mind is not under his control has no self-knowledge and no contemplation also. Without contemplation he shall have no peace; and without peace how can he be happy.

Note:

True happiness is not in the thirst for objects but in the restraint of senses from the thirst for enjoyment.

Contemplation – On the nature of his Self.

Meaning

न — not; अस्ति — is; बुद्धिः — Reason; अयुक्तस्य — of the uncontrolled; न — not; च — and; अयुक्तस्य — of the uncontrolled; भावना — meditation; न — not; च — and; अभावयतः — of one who is not meditating; शान्तिः — peace; अशान्तस्य — of the not peaceful; कुतः — where is; सुखम् — happiness;.

With sandhi:

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६॥

Anvaya:

अयुक्तस्य बुद्धिः न अस्ति, अयुक्तस्य च भावना न (अस्ति);

अभावयतः च शान्तिः न (अस्ति); अशान्तस्य सुखम् कुतः?


VERSE 2.67

इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते ।

तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि ॥ २-६७॥

Aphorism

As a strong wind sweeps away a ship in the water, similarly the wandering senses can carry away a man’s discrimination.

Note:

A single uncontrolled sense can plunge a man into the depths of worldly desires.

Meaning

इन्द्रियाणाम् — of the senses; हि — indeed; चरताम् — moving; यत् — which; मनः — the mind; अनुविधीयते — is conformed to ; तत् — that; अस्य — of him; हरति — carries away; प्रज्ञाम् — the intelligence; वायुः — wind; नावम् — the ship; इव — like; अम्भसि — in the water.

With sandhi:

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७॥

Anvaya:

चरताम् इन्द्रियाणाम् हि यत् मनः अनुविधीयते, तत् अस्य

प्रज्ञाम् अम्भसि हरति वायुः नावम् इव ।


VERSE 2.68

तस्मात् यस्य महा-बाहो निगृहीतानि सर्वशः ।

इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥

Aphorism

Therefore, O mighty-armed Arjuna, his knowledge is steady whose senses are completely restrained from sense objects!

Meaning

तस्मात् — therefore; यस्य — of whom; महाबाहो — O mighty-armed; निगृहीतानि — restrained; सर्वशः — everywhere; इन्द्रियाणि — the senses; इन्द्रियअर्थेभ्यः — from the objects of the senses; तस्य — of him; प्रज्ञा — the intelligence; प्रतिष्ठिता — established;

With sandhi:

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥

Anvaya:

तस्मात् हे महा बाहो! यस्य इन्द्रियाणि इन्द्रिय अर्थेभ्यः सर्वशःनिगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता ।


VERSE 2.69

या निशा सर्व-भूतानाम् तस्याम् जागर्ति संयमी ।

यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः ॥ २-६९॥

Aphorism

That which is a night to all beings, then the self-controlled man is awake; when all beings are awake, that is a night for the sage who sees.

Note:

The sage is awake to things over which the ordinary man sleeps. The sage is open to the truth while the common man is shut out from it. What is real for ordinary masses is an illusion for the sage.

Meaning

या — which; निशा — night; सर्व — all; भूतानाम् — of beings; तस्याम् — in that; जागर्ति — wakes; संयमी — the disciplined one; यस्याम् — in which; जाग्रति — wakes; भूतानि — beings; सा — that; निशा — night; पश्यतः — of the seeing; मुनेः — of the sage;

With sandhi:

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९॥

Anvaya:

या सर्व भूतानाम् निशा, तस्याम् संयमी जागर्ति ।

यस्याम् भूतानि जाग्रति, सा पश्यतः मुनेः निशा ।


VERSE 2.70

आपूर्यमाणम् अचल प्रतिष्ठम्

समुद्रम् आपः प्रविशन्ति यद्वत् ।

तद्वत् कामाः यम् प्रविशन्ति सर्वे

सः शान्तिम् आप्नोति न काम-कामी ॥ २-७०॥

Aphorism

He attains peace into whom all desires flow as waters flow into the ocean, which, filled (with water) from all sides, remains unmoved; but not the man who is full of desires.

Note:

Water from several rivers flows into the ocean. It does not overflow or become turbulent. Likewise, only a man who is not agitated by objects of enjoyment will remain calm and peaceful.

Meaning

आपूर्यमाणम् — being filled; अचल — unmoving ; प्रतिष्ठम् — status; समुद्रम् — to the ocean; आपः — waters; प्रविशन्ति — enter (√विश्); यद्वत्— as; तद्वत् — so; कामाः — (objects of) desires; यम् — to whom; प्रविशन्ति — enter; सर्वे— all; सः — he; शान्तिम् — peace; आप्नोति — achieves; न — not; काम — (objects of desire) desire; कामी — one who desires.

With Sandhi:

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमापः प्रविशन्ति यद्वत् ।

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी ॥ २-७०॥

Anvaya:

आपूर्यमाणम् अचल प्रतिष्ठम् समुद्रम् यद्वत्

आपः प्रविशन्ति, तद्वत् यम् सर्वे कामाः प्रविशन्ति,

सः शान्तिम् आप्नोति; काम कामी न ।


VERSE 2.71

विहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः ।

निर्ममः निरहङ्कारः सः शान्तिम् अधिगच्छति ॥ २-७१॥

Aphorism

A person who has given up all desires, who goes about free from yearnings, who has given up all sense of proprietorship and is devoid of ego, alone can attain real peace.

Meaning

विहाय — having abandoned; कामान् — desires; यः — he who; सर्वान् — all; पुमान् — man; चरति — goes; निःस्पृहः — without desire; निर्ममः — without a sense of mine (proprietorship); निरहङ्कारः — without egoism; सः — he; शान्तिम् — peace; अधिगच्छति — attains;

With sandhi:

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।

निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१॥

Anvaya:

यः पुमान् सर्वान् कामान् विहाय, निःस्पृहः निर्ममः

निरहङ्कारः (भूत्वा) चरति, सः शान्तिम् अधिगच्छति ।


VERSE 2.72

एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य विमुह्यति ।

स्थित्वा अस्याम् अन्तकाले अपि ब्रह्म-निर्वाणम् ऋच्छति ॥ २-७२॥

Aphorism

That is the Eternal State(knowledge of Brahman), O Partha. Having attained it no one is deluded. Who, even at the hour of death, is established therein (Eternal State), one can get final liberation in Brahman.

Note:

The eternal State is the state of Brahman — existence, knowledge, and bliss absolute.

If one can get liberation by attaining knowledge of Brahman at the hour of death, then what about one who practices the discipline of renunciation from an early age?

Meaning

एषा — this; ब्राह्मी — of Brahman; स्थितिः — status; पार्थ — O Partha; न — not; एनाम् — this; प्राप्य — having obtained; विमुह्यति — is confused (√मुह्); स्थित्वा — having sat (been established) √स्था; अस्याम् — in this; अन्त — at the end; काले — in the time ; अपि — even; ब्रह्म – of Brahman; निर्वाणम् — Enlightenment; ऋच्छति — attains (√);

With sandhi:

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२॥

Anvaya:

हे पार्थ! एषा ब्राह्मी स्थितिः, एनाम् प्राप्य न विमुह्यति,

अन्तकाले अपि अस्याम् स्थित्वा ब्रह्म निर्वाणम् ऋच्छति ।

Thus in the Bhagavad Gita, the Essence of Upanishads, the science of Brahman, the scripture of Yoga, and the dialogue between Krishna and Arjuna, ends the second chapter entitled: The way of Ultimate Reality.


Please report errors to: shivoham101b@gmail.com



Comments

Popular posts from this blog

Drig Drishya Viveka